________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
*
*
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
*
॥१५७॥
*
साकल्पनलाघवेनोपपत्तिरेवेत्याशंक्याह-'ननु चेत्यादि' (१३) तदश्रुतिरपीत्यत्र नैकान्तत इति योजनीयम् । तद्विकले सम्भवादिति ( ) सहकारिकारणविकलेऽश्रुतेः सम्भवादित्यर्थः । तर्हि किमयमित्यादि (१४) ।। योग्यशब्दसत्त्वे इन्द्रियमनोव्यापारसागुण्ये तत् प्रत्यक्षं स्यादेव निमित्तपवनसंयोगस्य घ्राणसन्निधानमात्रेण गन्थ इव शब्दे कर्णसन्निधानमात्रेणोपकारित्वात् विशिष्य शब्दप्रत्यक्षहेतुत्वे मानाभावादित्यर्थः। अत एवात्र नैयायिको मीमांसक पर्यनुयुक्रे, त्वया चैत्रादेः स्वीयमैत्रशुकादिककारादेः प्रत्यक्षे चैत्रादिकर्णावच्छिन्नानां विजातीयसंयोगानां कारणत्वं वाच्यमित्यतिगौरवं मम त्ववच्छेदकतया चैत्रादिककारादौ विजातीयवायुसंयोगो हेतुस्तत्पुरुषीयनिखिलशब्दप्रत्यक्षे च तत्पुरुषीयकर्णावच्छिन्नसमवाय इति कथं न लाघवमिति, अस्मन्मते तु बाह्यो वायुः प्रापको नतु कारको व्यञ्जको वेति तदुपनीतशब्दस्य श्रोत्रेण संयोगप्रत्यासत्यैव ग्रहणाच्छन्दविषयकश्रावणे श्रोत्रसंयोगत्वेनैकहेतुतयैव सकलोपपचावतिलाघवमिति श्रद्धेयम् । असामर्थ्यखण्डनेऽसामर्थ्यस्य व्यतिरेकाव्यतिरेकचर्चस्तु परिणामचर्चवत्प्राग्वदेव प्राचीनप्रणयानुरोधिभिरनुसन्धेयः । वर्णानां नित्यत्वसर्वगतत्वाभ्युपगमे सङ्कुला श्रुतिः स्यात् क्रमश्रुतिश्च विरुद्ध्येत । कार्यत्वे तुवक्तृश्रोविज्ञानयोः क्रमवृत्त्यपेक्षया क्रमोत्पत्तिप्रतिपच्योरविरोध इत्वाह-किश्च वर्णा इत्यादिना (१४९-२-५)ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्या न सर्वगता वर्णा नापि नित्या इत्यन्तेन ॥ (१५०-१-५) ननु चैत्रादिककारादिप्रत्यक्षे विजातीयनिमित्तपवनसंयोगहेतुत्वानानुपपचिरिति चेत् , न, उत्तोत्तरत्वात् , किश्च शब्दस्याकार्यत्वपक्षे तत्र चैत्रीयत्वादेरेवासिद्धिः, चैत्रजन्यत्वमेव हि चैत्रीयत्वं स्वाश्रयजन्यताविशेषसम्बन्धेन चैत्रत्वमेव वा, एवं च शब्दविशेषाद्वक्तृविशेषानुमानोच्छेदप्रसङ्गः। न च चैत्रवृत्त्यभिव्यक्तिविषयत्वमेव चैत्रीयत्वं,
49545056255546
****
१५७॥
For Private And Personal Use Only