________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मैत्रशब्दस्यापि चैत्रकर्णागतस्य चैत्रेणाभिव्यक्तेः । न च चैत्रीयताल्वादिव्यापारजन्याभिव्यक्तिविषयत्वं तत्, शब्दत्वादावतिप्रसङ्गात्, नापि शब्दत्वे सतीतिविशेषणादनतिप्रसङ्गः, एतावदप्रतिसन्धानेऽपि चैत्रीयोऽयं शब्द इत्यनुभवात्, न चैवं चैत्रीयत्वं जातिरेव न तु चैत्रजन्यत्वादिकमपीति तद्विषयोऽनुभवो न शब्दकार्यत्वपक्षपातीति वाच्यम् । तादृशजातेरपि चैत्रजन्यतावच्छेदकतयैव सिद्धौ तस्य तथात्वादिति दिगु । नन्वनुमानाद्वर्णनित्यत्वं सेत्स्यतीत्याशङ्कते 'ननु चेत्यादि ' ( ५ ) तद्दूषयति भाष्यकृत् 'क्षणिकेष्वेवेति (६) ' नर्त्तक्याः कर्णाङ्गहारादिषु क्षणभङ्गुरेष्वेव तदेवेदं करणं स एवायमङ्गहार इति प्रत्यभिज्ञानदर्शनान्नित्यत्वविरुद्धक्षणिकत्वेन व्याप्तं प्रत्यभिज्ञानं नित्यत्वे साध्ये विरुद्धं सादृश्यदोषादनेकत्रैवैकत्वविषयकत्वेन तत् प्रवृचिनियमादित्यर्थः । ऋजुमूत्रनयमाश्रित्य चेदं मीमांसकं प्रति दूषणमिति स्याद्वादिनो नापसिद्धान्तो, नानानयम भगवत्प्रवचने क्वचित् कस्यचिदाश्रयणे दोषाभावादिति मन्तव्यम् । दोषस्थलान्तरमाह-' एतेनेति' ( ६ ) क्षणिकाभिबुद्धिभिर्हेतोर्व्यभिचार इत्यर्थः इत्यभिधानादिति ( ७ ) शास्त्रान्तर इति शेषः । विरुद्धत्वेऽपि व्यभिचाराभिधानं च दोषसाङ्कर्यसम्भवादविरुद्धम्, बुद्धिकमणोरप्येकत्वान्न विरुद्धत्वमित्याशङ्कते - 'नन्विति' (७) || अतिप्रसङ्गान्नेदमुक्तं युक्तमिति परिहरति क्रियैकत्वेऽपीत्यादि (८)|| शब्दानित्यत्वमुपसंहरति, तदयमिति (१३) ॥ सर्ववर्णैकत्वनिरासादकारादिवर्णस्यैकत्वमपि नास्तीत्याह- 'तदेवमिति (१३) ।' देशभेदः शुकसारिकाद्याश्रयभेदात्, स्वभावभेदश्च तारमन्दादिभेदाद्रष्टव्यः । 'युगप· त्प्रतिनियतेति' (१५० - २ - ४) ननुतार त्वादयो वायुगता एवाकारादावारोप्यन्त इति न तेऽकारादिभेदकाः स्युरिति चेन्मैवं, एवं सत्यत्वादेरपि वायुधर्मत्वापसौ शब्दस्यैक्यप्रसङ्गात्तद्वदेव शब्दस्यापि वायुधर्मत्वापचौ शब्दमात्रस्य दचजलाञ्जलित्वप्रस
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir