________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandi
CRORSC5+SCIECCAK
णामेऽप्येष पर्यनुयोगस्तुल्य इति (१४८-२-२) अवस्था कालकृतो विशेषः, परिणामस्तु सत एव प्रदेशपरिणामादिनान्यथाभाव इति विशेषः। तस्य (५) प्रधानस्य, तत्कार्यत्वेन (५) उपकारकार्यत्वेन, उपकार्यत्वस्य कार्यत्वविशेषत्वादित्यर्थः । भाष्ये 'सर्वसमानमिति' (५) परिणामभेदाभेदपक्षदूषणमित्यर्थः, तदाह वृत्तिकृत् । 'यावन्तो हीत्यादि' (६)॥ तस्यामिति() तस्यां (८) प्रधानस्योपकाराणां वाऽनवस्थायाम् , भोग्यस्य प्रकृतिमहदादेरभावे, पुंसो भोक्तृत्वाभावादभावः स्यात् (८) तस्य (९) भोक्तृत्वस्य, तल्लक्षणत्वात् (९) भोग्यसद्भावनियतत्वात् , अवस्थानाभावात् (९) वरूपासिद्धेः। तर्हि तस्य कारणादात्मलाभोऽभ्युपगन्तव्य इति (१४९-१-३), तस्याविर्भावस्य, न चेदेवं तदाविर्भावस्य नित्यं सत्त्वमसत्त्वं वा स्यादित्यर्थः । आत्मलाभे (४) उत्पत्ती, तदेवं सांख्यमतस्यायुक्तत्वात् शब्दव्यङ्ग्यत्वसमर्थनाय तदनुसरणं मीमांसकस्य न न्याय्यमित्युपसंहरति 'ततो नेत्यादि' (७)। किं कृतमश्रवणमिति (८) शब्दत त्सभिकर्षादेःश्रावणकारणस्याखण्डस्य सत्त्वादित्यर्थः । 'तिरोधायकस्येत्यादि (९) प्रौढिवादोऽयम् ॥ वस्तुतः शब्दश्रावणप्रतिबन्धकवायुविशेषकल्पनागौरवमेव दूषणं बोध्यम् । किश्चैवं कत्वखत्वादिप्रकारकप्रत्यक्षप्रतिबन्धकतावच्छेदिका अपि जातयो वायुसंयोगेषु कल्पनीयास्ताश्च परस्परं कोलाहलस्थलीयवायुसंयोगे संकीर्यन्ते, तदा कत्वाद्येकतरप्रकारकप्रत्यक्षस्याप्यभावादिति जातिरूपो विशेषो दुर्वचः, तत्तद्वायूनामन्यतमत्वादिना प्रतिबन्धकत्वे चोदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरह इति न किञ्चिदेतत् । ननु कोलाहले कत्वादिग्रहवारणाय दोषाभावानां कत्वादिप्रत्यक्षे हेतुत्वमपेक्ष्य विजातीयनिमित्तपवनसंयोगहेतुत्वमेव ज्यायः । तथा च विनाशानभ्युपगमेऽपि शब्दस्य विजातीयनिमित्तपवनसंयोगाभावकृतमश्रवणं भविष्यतीति नानुपपत्तिः, प्रत्युत शब्दप्रागभावध्वं
SHAROSCORE
ॐ
२७
ॐ
For Private And Personal Use Only