________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shn Kailassagarsuri Gyanmandir
परिच्छेद:
अष्टसहस्त्री विवरणम् ॥
प्रथमः॥
॥१४३॥
* SHASRAEX
म्यसम्बन्धेन घटाभावव्यवहारहेतुत्वाभ्युपगमे तदसिद्धेः, अस्तु वा भावत्ववदभावत्वमखण्डोपाधिर्घटादिनिरूपिताभावत्वेन भूतलादेर्शाने च योग्यानुपलब्धिसहकृतचक्षुरादिप्रतियोगिज्ञानादि च हेतुः, तथाज्ञानाच्च तथाव्यवहारः, इत्थं च विशेषणता दिप्रत्यासत्यकल्पनाल्लाघवमपीत्यस्मदेकपरिशीलितः पन्थाः। ततः (१३७-२-६) प्रत्यक्षतोऽन्यतो वा प्रमाणात् , अपरः (७) सत्ताद्वैतवादी, व्यभिचार्येव (७) सन्दिग्धव्यभिचार्येव, विपक्षेपि (७) वस्तुनः एकत्वेऽपि, भावादुद्ध्यादिकार्यनानात्वस्येति योगः। विविधकर्मतेति (८) बहुव्रीयुत्तरस्तल, विविधकार्यकारितेत्यर्थः। भाष्ये शक्तिनानात्वं (९) एकस्यापि नर्तक्यादिक्षणस्य शक्तिभेदोऽस्ति, कुतः, प्रसवविशेषात् (१०) नानावुझ्यादिकार्यदर्शनात् , तत्र सचाद्वैतवाद्याह-स (१०) प्रसवविशेषो वस्तुनानात्वेन व्यभिचारी चेत् (१०), कुतस्तद्गतिः (१०) शक्तिनानात्वसिद्धिस्ततो यत्किञ्चिदेतदित्यर्थः ।
वृत्तौ, तस्यापि(११)एकनर्तकीक्षणस्यापि, प्रसवविशेषो (१०) बुद्ध्यादिकार्यविशेषोऽव्यभिचारीत्यकारप्रश्लेषेण व्याख्येका यम् । 'नर्तक्यादीति' (११) कार्यभेदनियतकारणताभेदस्य शक्तिभेदप्रयुक्तत्वाभ्युपगमे समनियतशक्तीनां प्रत्येकमपि
बुद्धयादिनानाकार्यकारित्वस्य बलादापातादेकैकशक्तावपि शक्त्यन्तरापत्तौ तत्रापि तत्स्वीकारे दुस्तरानवस्थानदीति भावः । वस्तुनानात्वाभावे कुतस्तद्व्यवहार इत्यत्राहसत्ताद्वैतवादी 'केवलमिति' (१२ ) सत्ताद्वैतवादेऽप्यविद्याकल्पितर्देशादिभेदैर्वस्तुनानात्वं व्यवहियताम् , न तु वास्तवं तत् , अत एव सौगतसाङ्ख्यादिकल्पितस्कन्धपश्चकपश्चविंशतितत्वादिविकल्पा अपि तत्तत्प्रवचनवासनाजनकाविद्यामूला नाद्वैततचं बाधन्त इति हृदयम् । साधनव्यभिचाराद् (१३७-१-१) बुद्धिविशेषादेर्वस्तुनः कूटस्थत्वेऽप्यविद्यामहिम्ना सम्भवात् सर्वविशेषसाधनानां सन्दिग्धव्यभिचारित्वादिति भावः । सचाद्वैत
॥१४॥
For Private And Personal Use Only