SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir वादिन दूषयति भाष्यकृत्-'सोऽपि हीत्यादि (१३७-१-१) एतद्विवृणोति वृत्तिकृत् कस्यचिद्धीत्यादि, (२) अद्वैते साध्यसाधनयोरविशेषान्न कुतश्चित् किश्चित् सिध्येद् व्यवहाराद्भेदमुपगम्य खण्डप्रतिभासनादिना ब्रह्मैकत्वसाधने चव्यावहारिकमेवैकत्वं सिद्ध्येत् , न तु तात्विकं तत्प्रतिबद्धलिङ्गाभावात् , अपेक्षाकल्पितत्वस्य च भेदवदभेदेऽपि व्यावहारिकत्वपर्यवसायकत्वादिति तात्पर्यार्थः । एतेन यदुच्यते ब्रह्मेन्द्रेणानुभूयमानस्य प्रतिभासस्य प्रागभावप्रध्वंसनानात्वादिकल्पने गौरवाल्लाघवामित्यसत्यैकब्रह्मसिद्धिरिति तन्निरस्तम् । प्रमाणं विना लाघवमात्रेणार्था सिद्धेः अन्यथा सच्चिदानन्दब्रह्मणोऽपि कल्पने गौरवाच्छ्न्य ज्ञानकल्पने लाघवदृष्टिं ददन् माध्यमिक एव विजयेत, अनुभवश्च प्रतिभासस्य वैलक्षण्य एव साक्षी चित्रज्ञानदृष्टान्तेन नानात्वे चेति नानैकान्तं विहायाद्वैतपक्षः श्रेयान् । नन्वेकत्वे तत्त्वमसीत्यादिवेदवाक्यस्य प्रमाणराजस्य सत्वात्तत्र लाघवतर्कः सहायो भविष्यतीत्याशङ्कायामाह-'आम्नायादित्यादि'(८) आम्नायात् वेदात् , नैवं तत्कृतं स्यात् (१०) ब्रह्मण एकत्वं निर्णीतं न स्यात् । प्रत्यक्षादिप्रमाणबाधिते ब्रह्मैकत्वे वेदोऽपि न पदमाधचे इत्यर्थवादरूपतां कक्षीकुर्वन्लघौ माध्यस्थमेवालम्बत इत्यर्थः। एतेन तत्त्वमस्यादिवाक्यजन्योऽनुभवः शुद्धमखण्डं ब्रह्माऽहमस्मीति प्रत्यक्षस्य क्षणिकत्वेऽपि प्रमाणतापत्तरितिदिग् । तदेवं वेदान्तिनोऽद्वैतपक्षदूषणेन नानाभावैकान्तं स्वीकारयित्वा तत्रोक्तं दूषणगणमुपसंहरति, ततो भावा - एवेत्यादि' (१३७-१-१४)॥९॥ संप्रति घटादेः शब्दादेश्च प्रागभावप्रध्वंसाभावनिढववादिनं प्रति दूषणमुपदर्शयन्तः कारिकामाहुः।कार्यद्रव्यमनादि स्यात प्रागभावस्य निहवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy