________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
451525460
गिज्ञानस्य हेतुत्वाकल्पने इन्द्रियसम्बद्धविशेषणतया फले जननीये घटत्वप्रकारकज्ञानस्य सहकारित्वमसम्भवि, ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकमावस्तयोरेव परस्परं सहकारित्वस्वीकारात्, अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वकल्पनपक्षे तु घटादिनिष्ठप्रतियोगितासम्बन्धावच्छिन्नप्रकारतानिरूपिताभावनिष्ठाभावत्वावच्छिन्नविषयताशालिप्रत्यक्षत्वावच्छिन्नं प्रति घटमात्रनिष्ठधर्मावच्छिन्नप्रकारताशालिज्ञानत्वेन हेतुत्वं कल्प्यते तथा च घटत्वादिप्रकारकज्ञानेन्द्रियसम्बद्धविशेषणतयोः कार्यतावच्छेदकयोः परस्परव्याप्यव्यापकभावेन ताभ्यां फले जननीये परस्परसहकारित्वस्य यौक्तिकत्वादिति, तदसत् , ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकभावस्तयोरेकेन फलेन जननीयेऽन्यस्य सहकारित्वं कल्प्यत इत्यत्र मानाभावात् , ययोः कार्यतावच्छेदकयोः सामानाधिकरण्यं तयोरेकेन फले जननीयेऽन्यस्य सहकारित्वमित्यस्यैव स्वीकारादुक्तयुक्त्या प्रतियोगिज्ञानहेतुत्वासिद्धेः, सत्ताया असत्तायाश्च केवलाया धर्मिभासकसामग्र्यैव भावात् , घटाद्युपरक्ततद्व्यवहार एव घटादिज्ञानस्य हेतुत्वेन व्यवहारस्यैव सप्रतियोगिकत्वसिद्धिरिति दिग्। “प्रदर्शितोऽयं प्रतियोग्यभावधीहेतुकार्यत्वविचारभूमा॥अस्मिन्ननेकान्तमतिप्रवेशात्क्लेशावहः कापिन पक्षपातः॥१॥अथ प्रकृतम्, अभावं भावभिन्नमनुपारमम् । अनुपलब्धेः (१३६-१-१४) अभावानुपलब्धेः, व्यवस्थापयेत् (१३६-२-१) प्रतिपत्तेति शेषः । अवभासनादिति (२) शुद्धं भूतलमेव घटाभाव इत्येवं सार्वजनीनानुभवाद्धर्मिकल्पनात इत्यादिन्यायाचेति भावः । 'वस्त्वन्तररूपस्यैवेति (४) अन्यवस्तुविज्ञानस्यान्यवस्तुविषयत्वादिति भावः। नन्वेवं घटवदन्यभूतलं घटाभाव इति प्राप्तं तथा चान्यत्वान्योन्याभावस्य चिन्तायामतिरिक्ताभावसिद्धिरिति चेत्, न, कालभेदेन वस्तुतो घटवदन्यस्य भूतलस्य तत्कालावच्छिन्नतादा
For Private And Personal Use Only