SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धनं (९) संविनिर्मासभेदरूपं, साधनाय मेदसाधनाय, तदेकं ब्रह्माऽज्ञानसत्तायां प्रमाणभावाचक्षुरादिज्ञानप्रतिभासस्य यो भेदस्तद्वशात्तद्धेतोः, रूपादिव्यपदेशभाग् भवति, यथा भेदवादिन एकमेव ज्ञानं ग्राह्यग्राहकारंभनियामकश्चात्र तत्तकालादिसध्रीचीनोऽविद्याविलास इत्यर्थः । 'योऽपीत्यादि' (११) एकमेव ब्रह्माऽभ्युपगच्छतोऽद्वैतवादिनो यथा वर्णादिविकल्पोऽसत्यस्तथेतरेतराभावप्रत्ययोऽपीति न ततो भावखभावभेदसिद्धिरित्यर्थः। अभेदेऽपि (१३) अभेदस्य प्रामाणिकत्वेऽपि, भूतलादिभावविषयत्वाच्छुद्धभूतलादिभावविषयत्वादित्यर्थः । कीदृशं शुद्धं भूतलमिति चेत् , यादृशं तव घटाभावाधिकरणम् , उभयमपि पृच्छाम इति चेत्, पृच्छन्तु तावदेतत्तत्त्वमनुभवं भवन्तः। भूतलस्वरूपत्वे घटाभावस्य घटागमनकालेऽपि तदपरावृत्ते स्तदुपलम्भप्रसङ्ग इति चेत्, न । तदा तव कालघटितस्येव मम देशघटितस्याभावसम्बन्धस्यापगमकल्पने दोपाभावात् , एवं सति कालविशेषघटितसम्बन्धेन मृदादेरेव घटादिव्यवहारोपपत्तौ गतं घटादिनाऽपीति चेत् , मैवं द्रव्यार्थे इष्टत्वात् , पर्यायार्थनये च घटादेरभावादेश्वातिरेकाभ्युपगमस्य दोषानावहत्वादिति । क्रमतोऽनन्तरूपाभावप्रतिपत्तावेवेति (१३६-१-१) क्रमेणानन्तसंख्यघटपटाद्यभावग्रहण एवेत्यर्थः। यद्यप्यनन्तानामभावानां प्रत्यासत्यविशेषादेकदैव ग्रहणोपपत्तेः क्रमत इत्ययुक्तम् , तथाऽप्यभावग्रहसामग्र्यविच्छेदाद्धारावाहिकतगृहसौलभ्यापेक्षयेत्थमुक्तिरिति सर्त्तव्यम् । ननु केवलाभावप्रत्यक्षाभ्युपगमेस्यादयं दोषः सावकाशः, स एव चास्माकं नास्ति, अभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वस्वीकारात्तत्कादाचित्कत्वे न चाभावग्रहकादाचित्कत्वमिति, यदैव न प्रतियोगिज्ञानं तदाऽभावग्रहान्तर्भावग्रहस्यालब्धावसरत्वमित्याशंक्याभावग्रहे प्रतियोगिग्रहहेतुतां खण्डयन्नाह क्वचित्प्रतिपक्षेत्यादिना (२), ततः स्मृतिनिरपेक्षमेव सर्व प्रत्यक्षमिति, (१३६-१-१०) For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy