________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥ ॥१३८॥
परिच्छेदः प्रथमः॥
न च स्मृतित्वेन स्मृतिजन्यत्वस्य प्रत्यक्षत्वाभावव्याप्यत्वेऽपि विशेषणज्ञानत्वेन तजन्यतया अतथात्वान्नायं दोष इति शङ्क- नीयम् । विशिष्टज्ञानत्वावच्छिन्नं प्रति विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति वा विशेषणज्ञानत्वेन हेतुत्वे मानाभावाचद्विशेषणेन्द्रियसन्निकर्षतदसंसर्गाग्रहादिनैव तद्विशिष्टप्रत्यक्षोपपत्तेः सुरभिचन्दनमित्यादेश्वाकरे प्रत्यभिज्ञानतयैवोपपादितत्वादितिदिग । तच्च यद्यभावविषयं स्यादिति (१०) घटत्वाद्यवच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षे घटादिज्ञानस्य प्रतियोगिज्ञानविधया विशेषणतावच्छेदकप्रकारकज्ञानविधया वा हेतुत्वेऽपि शुद्धाभावदर्शनस्य सदा सम्भृतसामग्रीकत्वादिति भावः। न चाभावदर्शनस्याप्यधिकरणादिभावविषयकत्वात्कथमभावदर्शने सति भावदर्शनस्यानवसरप्राप्तत्वमिति वाच्यम् । अधिकरणमिश्रिताभावज्ञानस्य सङ्कलनात्मकत्वेन प्रथममभावावग्रहादिघटिताभावोपयोगेनाभावग्रहस्यैवाविच्युतौ सत्यां भावसंयोजनानुपपत्तिरित्यत्र तात्पर्यात् , " अभावबुद्धौ प्रतियोगिबुद्धेः, प्राञ्चोऽत्र यत्कारणतां वदन्ति ॥ तन्नव्यसिद्धान्तविमर्दपूर्व स्वतंत्रयुक्त्या परिभावयामः॥१॥न्यायाम्बुधिर्दीधितिकारयुक्ति-कल्लोलकोलाहलदुर्विगाहः॥ तस्यापि पातुं न पयः समर्थः । किंनाम धीमत्प्रतिभाम्बुवाहः ॥२॥" अत्र प्रतियोगिज्ञानशून्यकालेनेत्याद्याकारकप्रतियोग्यमिश्रिताभावप्रत्यक्षवारणाय तत्र प्रतियोगिज्ञानस्य हेतुत्वमङ्गीकुर्वन्ति जीर्णाः तन्मतेनाभावज्ञानत्वं तत्प्रत्यक्षत्वं वा प्रतियोगिज्ञानकार्यतावच्छेदकम् , प्रमेयत्वादिनाऽभावग्रहेऽभावत्वसामान्यलक्षणाधीनाभावप्रत्यक्षे च व्यभिचारात्, नापि सामान्यतोऽभावलौकिकप्रत्यक्षत्वं प्रतियोगिज्ञानकार्यतावच्छेदकम् , घटज्ञानकाले पटाभावादिलौकिकप्रत्यक्षोत्पत्तिप्रसङ्गात् , नापि घटत्वावच्छिबप्रतियोगिताकाभावादिलौकिकप्रत्यक्षत्वं घटज्ञानादिकार्यतावच्छेदकम् , द्रव्यत्वादिना घटादिज्ञानोत्तरमपि तादृशाऽभावलौ
१३८॥
For Private And Personal Use Only