SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेद: प्रथमः॥ अष्टसहस्री|| च सर्वात्मकत्वादिदोषानुषङ्गः परिहर्तमशक्यः ॥ ९ ॥ विवरणम् ॥ भावकान्त इति' (१३४-२-९)भावैकान्तेऽस्तित्वमेवेत्यभ्युपगमे, अभावानाम् ,(१०) अन्योन्याभावात्यन्ताभावग्राग भावप्रध्वंसाभावानाम्, प्रकृतेः पुरुषात्मकत्व इति (१३) प्रकृतौ पुरुषत्वात्यन्ताभावानभ्युपगमे पुरुषत्वस्य बलादापातादि॥ १३७॥ त्यर्थः। तथा भावैकान्तविरोधात् (१३५-१-९) तथाभ्युपगमे भावैकान्तप्रतिज्ञाया विरोधापत्तेरित्यर्थः । नीरूपत्वप्रसङ्गात् (१०)निःस्वभावत्वप्रसङ्गात् , नास्तित्वस्य च वस्तुधर्मत्वादिति (११) धर्मश्च धर्म्यमिन्न एवेति नाभावोऽतिरिक्त इति | भावः। मेदाभेदवादाचाभेदाश्रयणे तत्वेन भेदाश्रयणे च तद्वृत्तित्वेन प्रतीतेरविरोधोऽन्यथा भावधर्मोऽप्यतिरिच्येत, एतेन भृत लस्य घटाभावत्वे भूतले घटाभाव इति प्रतीतिर्न स्यात् , स्याद्वा भूतले भूतलमिति धीरित्यपास्तम् । अभेदेऽपि घटाभावत्वेनाधेय| ताया भूतलत्वेन चाधारताया एव यथाप्रतीतिस्वीकारात् , न चाभावस्याधिकरणात्मकत्वे दुःखध्वंसस्यात्मरूपत्वेनासाध्यतापत्तिरित्यपि दूषणमसान् प्रतिशोभते आत्मनोऽपि परिणामित्वेन कथश्चित् साध्यताया इष्टत्वादिति दिग, सर्वविवर्तात्मकस्य (१३) निखिलसांवृतभावाधिष्ठानस्य, तत्त्वत इति (१३) संवृत्या परं तत्वं न निषिध्यत इति भावः । 'अन्यथेति' (१३५-२-२) अनुमानमागमप्रमाणं वा न प्रतिषेधकं प्रमाणत्वानिर्विकल्पकप्रत्यक्षवदित्यनुमानादिति भावः। तस्य (३) कारणभेदस्य, असिद्धत्वात् (४) खमज्ञानवदिति भावः। तत एव (४) अमेदवादिनं प्रत्यसिद्धत्वादेव, स संविनिर्भासभेदः, खण्डशः प्रतिभासनात् (४) इत्यत्राविद्या तजनितान्तःकरणादिभेदो हेतुर्द्रष्टव्यः। संवेदनाद्वैतवादी शङ्कते, नन्विति (५) तद्वैतवाद्याह, तदन्यत्रापीति (६) तत्तर्हि, अन्यत्रापि ब्रह्माद्वैतेऽपि, विभ्रमाभावे (६) विभ्रमो नास्तीत्यभ्युपगमे, विशेषसा AAAAA ॥ १३७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy