________________
Shri Mahavir Jain Aradhana Kendra
www
bath.org
Acharya Shri Kailassagarsuri Gyanmandir
545525%9545425%
| वोभयात्मकतयोभयदोषापहारितया वा भावनीयम् । तत्त्वमत्रत्यमस्मत्कृतनयरहस्ये, अध्यारोप्यमाणस्येति; (११९-२-१) | नन्वप्रसिद्धस्याध्यारोपोऽप्ययुक्तः क्वचित् प्रसिद्धस्यैव क्वचिदारोपादिति चेत्, न । सर्वथात्वेनैकान्तस्य प्रसिद्धस्यैवारोपात्तथा निषेधस्य युक्तिसिद्धत्वात् , व्युत्पादयिष्यते च व्यधिकरणधर्माविच्छिन्नप्रतियोगिताकादिरभाव उपरिष्टादिति मा त्वरिष्टाः, अतिरिक्ताभावमनङ्गीकृत्याह, अथवेति (२) प्रयासमन्तरेणेति (३) अनेकान्तविधिनैव प्रत्यक्षसिद्धेन सर्वथैकान्तनिषेधव्यवहारसिद्धे प्रसिद्धनिषेधोपपादनार्थ कश्चिदस्माकं प्रयास इति भावः। एवं चोक्तविधिनिषेधव्यवहारजनकत्वेन वस्तुन एव भावाभावोभयरूपत्वादभावव्यवहारस्यैव सप्रतियोगिकत्वादभावप्रतियोगित्वस्याप्रसिद्धस्थले वक्तुमशक्यत्वेऽपि न कोऽपि दोष इति मन्तव्यम् । ननु प्रत्यक्षादनुमानादेर्बलवत्त्वात्तदपेक्षा भविष्यतीत्यत आह भाष्यकृत् , 'नहीति' (११९-२-३) इष्टमनुमानादिप्रमाणम् , दृष्टात् प्रत्यक्षात् , ज्येष्ठमुपजीव्यत्वेनोत्तम, गरिष्टं च समारोपविशेषव्यवच्छेदकत्वेन बलवत् , तदभावे (४) प्रत्यक्षाभावे, प्रमाणान्तरस्यानुमानादेरवृत्तेरप्रवृरोः, समारोपविच्छेदस्य च विशेषादपुनरुत्थानरूपविशेषदर्शनात् । कचिदनुमानायुत्तरकालमिति (११९-२-५) पर्वतो वह्निमानित्यनुमित्यनन्तरं पर्वतवह्नयोश्चक्षुःसन्निधाने तथा प्रत्यक्षस्याप्यु त्पत्तेस्तत्र च विशेषणज्ञानतयोक्तानुमितेरुपयोगादिति भावः। 'प्रत्यक्षस्येत्यादि' (८) तथा चानुमानत्वाद्यवच्छेदेन प्रत्यक्षोपजीवकत्वादनुमानादेः सकाशात् प्रत्यक्षस्य ज्येष्ठत्वम् , प्रत्यक्षत्वावच्छेदेन चानुमानाद्यनुपजीवकत्वादनुमानादेः प्रत्यक्षात् कनिष्ठत्वमिति भावः । नन्वनुमानत्वायवच्छेदेनापि न प्रत्यक्षोपजीवकत्वमस्ति स्मरणानुमानादिना व्याप्तिस्मृतिलिङ्गज्ञानादौप्रत्यक्षव्यापारादर्शनादिति चेत् , न, । तत्रापि परम्परयाऽनुभवपदज्ञानाद्यपेक्षायां प्रत्यक्षानुसरणावश्यकत्वात् , ज्ञानकरणकप्रत्य
R
For Private And Personal Use Only