________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥१२६॥
परिच्छेदः प्रथमः॥
क्षमात्रे स्वांशप्रत्यक्षोपजीवकत्वाव्यभिचाराच्च, न चादृष्टार्थप्रवृत्तिजनकानुमानस्यादृष्टद्वारा प्रत्यक्षमात्रे हेतुत्वादविशेषोऽदृष्टाद्वार- कत्वविशेषणनिवेशेनैव तद्दोषनिरासादिति बोध्यम् । 'नहि यादृश इति' (११९-२-९) अनुमानादेः सामान्यविषयत्वाचतः सामान्यविषयकसमारोपनिवृत्तावपि पुनस्तार्णातार्णादिविशेषविषयः स भवन निरोढुं शक्यते, प्रत्यक्षस्य तु विशेषविषयत्वान्न ततस्तादृशोऽपि संशय इत्येवं समारोपविच्छेदविशेष्यहेतुत्वेन प्रत्यक्षस्येतरप्रमाणेभ्यो गरिष्ठत्वं भावनीयम् । स्वरूपतः समारोपविच्छेदविशेषेण दृष्टस्य गरिष्ठत्वं भावयित्वा व्यवहारतस्तेन तद्दर्शयितुमाह, 'दृष्टस्येत्यादि' (११९-२-१०) तद्विवृणोति, प्रत्यक्षमेव हीत्यादि (११), 'स्वभावेति' (१२) स्वभावभेदप्रदर्शनमेव प्रयोजनं यस्य तत्तथा, न चानेकान्तावगाहिनः प्रत्यक्षस्यैव प्रतिनियतविधिनिषेधव्यवहारजनकत्वे तत्र सर्ववादिनामविप्रतिपत्तेर्विचारानुपपत्तिस्तथा च हेतुवादेन तत्साधनमार्हतानां नोपपद्यतेत्यपि कुचोधमाशङ्कनीयम् , अनेकान्तविषयप्रत्यक्षप्रामाण्य एव विप्रतिपन्नान् प्रति हेतुवादरसिकान् प्रत्येव वा हेतुवादेन तत्साधनस्य तत्र तत्रोपपादितत्वादिति दिग् , “ दोषाभावादिति (१२०-१-४) न चैवमधिकोच्छेद एव स्यादिति शङ्कनीयम् , स्वसाध्यसिद्धिप्रतिकूलस्वसाध्यसाधकातिरिक्तवचनस्यैवाधिकलक्षणत्वात् , ' परेणेति' (५) प्रतिवादिकृतस्वपक्षनिराकरणस्य परपराजयाप्रयोजकत्वात्परपक्षमात्रनिराकरणे चाधिक्यस्यापक्षपातित्वादुभय- | पक्षनिराकरणे च तुल्यवदुभयोः पराजयप्रसङ्गादित्यर्थः । एतदेवाह-' यदि पुनरित्यादिना (६)। साधनवचनसामाज्ञानमिति (९) अन्यतरवचनसामर्थ्यज्ञाने उभयप्रयोगानुसरणासम्भवादर्थान्तरज्ञानसिद्धेरित्यर्थः । तदुद्भावयतो वादिनः (१०) साधनवचनासामर्थ्यज्ञानं प्रकटयतः, तज्ज्ञानं (१०) वादिनिष्ठाज्ञानावच्छेदकोक्तसामर्थ्यज्ञानम् ,
॥ १२६॥
For Private And Personal Use Only