________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ।। १२५ ।।।।
www.kobatirth.org
साक्षिभास्यतयैव यावत्सच्चं प्रकाशोपपतेः, तत्त्वं च वेदान्तिनां साक्षिण्यध्यस्तत्वम् अस्माकं च चेतनद्रव्याभिन्नत्वम् । न चैवमात्मवृत्ययोग्यधर्मेऽपि प्रत्यक्षत्वापतिः, द्रव्यार्थतयेष्टत्वात्पर्यायार्थतया त्वात्मविषयकमानसे तत्तदात्मविषयकमानसे वा विजातीयात्ममनः संयोगस्य तत्तदात्ममनः संयोगस्य वा विषयतया सुखादिप्रत्यक्षे च तादात्म्येन सुखादीनां हेतुत्वाददोष इति दिग् । असंकीर्ण विशेषैकात्मनः ( ११८ - २ - ६ ) प्रतिस्वभिन्नसुखदुःखहर्षविपादाद्यनेकगुणाभिन्नैकद्रव्यस्य स्कन्धस्य चेति, अत्र प्रेक्षणं सिद्धिमित्यनेन सम्बध्येत तत एव ( ८ ) स्वसामग्रीवशात् प्रत्यक्ष संविजननसमर्थस्योत्पत्तेरेव, परेषां (९) स्याद्वादिनां तस्या (११) अवयविनः, तथात्वेन (१२) परमाणुत्वेन, अणुमहत्त्वादीति, (१४) तथा च महत्त्वमेव स्कन्धस्य योग्यता तदभावादेव परमाणूनामयोग्यतेति भावः । अतिशयिताणूत्पच्यैव योग्यत्वस्वीकारे तु परमाण्ववच्छेदेनेन्द्रियसन्निकर्षेऽपि घटादिप्रत्यक्षापत्तिरिति बोध्यम् । संयोगविशेषेणावयव्यन्यथासिद्धिं च पुरस्तान्निर्लोठयिष्यामः । अस्तु नाम स्कन्धानाम णुमहत्त्वादिना दृश्येतरस्वभावता तथापि तेषां विकल्पबुद्धावव भासनाद वस्तुत्वमित्याशङ्कायामाह. 'न चायमिति, प्रत्यक्षतास्वीकरणादिति' (११९-१-१) “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणतेति" वचनाभीलाद्यंश इव स्कन्धांशेऽपि विकल्पधीजननात्तत्र दर्शनप्रामाण्यस्य प्रसह्य स्वीकारणादिति भावः । 'चक्षुरादीति' (२) चक्षुरादिजन्यग्रहविषयत्वादिनैव रूपादिभेदव्यवहारसम्भवादिति भावः । 'सत्तादीति ' ( ३ ) सत्ताद्वै तव व्याद्वैतमप्रामाणिकमनुभूयमानपर्यायापलापे सर्वशून्यतापचेरिति भावः । ' न तावदिति ' ( ८ ) द्वावाद्यौ निषेधौ पदार्थत्वावच्छेदेन तृतीयः पदार्थत्वसामाना धिकरण्येन, चतुर्थः पदार्थत्वावच्छेदेन, जात्यन्तरस्येति ( ९ ) जात्यन्तरत्वं च नृसिंहन्यायेन गुडशुंठीन्यायेन
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
।। १२५ ॥