________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिजन्यतावच्छेदकया तदुभयजन्ये साङ्कर्यादुभयजन्यतावच्छेदकजात्यन्तराभ्युपगमे च तदवच्छिन्नोत्पत्तिकाले प्रत्येकजन्यकार्यप्रसङ्गात् तत्कार्ये तदितरसन्निधानस्य प्रतिबन्धकत्वादिकल्पने च महागौरवादिति चेत्, न, एवं सति सुखस्य सविषयकत्वसिद्धावपीच्छाद्वेषयोरिव ज्ञानाभिन्नत्वे मानाभावात्, न च सुखस्य सविषयकत्वे विषयता द्विविधा प्रतिपत्त्यनुबन्धिनी व्यापारानुबन्धिनी च, प्रतिपत्तित्वनिरूपकत्वं प्रतिपत्त्यनुबन्धिनीत्वम्, स्वजन्यप्रतिपत्तिनिरूपितत्वं व्यापारानुबन्धिनीत्वम्, आद्या ज्ञाने द्वितीया च शब्दादाविति विभागव्याघातप्रसङ्ग इति वाच्यम्, प्राचीनैरेवेत्थं निर्युक्तिकविभागस्याभ्युपगमान्नवीनैरिच्छाद्वेषादेरपि सविषयकत्वस्वीकारेण तथानभ्युपगमात् युक्तं चैतत् विशिष्टबुद्धौ विषयितया विशेषणवच्वेन विशिष्टवैशिष्ट्यबुद्धौ च विशेषणतावच्छेदकाभावाप्रकारकत्वे सति प्रकारितया विशेषणतावच्छेदकवत्त्वेन हेतुत्वौचित्यात्, न चैवं संशयेऽप्यनुद्बुद्धसंस्काराद्विशिष्टवैशिष्ट्यबुद्ध्यापत्तिः संस्कारजन्यतत्तद्विशिष्टवैशिष्ट्य प्रत्यक्षे उद्बोधकस्य हेतुत्वात्, न चैवमपि सामान्यकार्यापत्तिः संस्काराजन्यतत्तद्विशिष्टवैशिष्ट्यबोधेऽपि तत्तद्विशेषणज्ञानादीनां विशिष्यहेतुत्वात्, न चैवं सामान्यहेतुत्वं विफलम्, यत्रात्मनि शरीरे वा तादृशानुद्बुद्धसंस्कारस्तत्र तत्साफल्यात्, एतेन दण्डो रक्तो नवेति संशयाद्दण्डो रक्तो भवत्वितीच्छास्वीकारे रक्तदण्डवान् चैत्र इत्यादेरापत्तिरित्यप्यपास्तम् । क्वचिद्विशिष्यकारणतायाः कल्पनात् सामान्य हेतुतायाश्वोक्तरीत्यैव साफल्यात् एवं च चन्दनादिविषयक सुखादेव तद्ज्ञाने चन्दनादिभानं सुघटम्, वैषयिकं च सुखं विषयावच्छिन्नाल्हादनत्वाख्यविषयताक विषयातीतं च निरवच्छिन्नाल्हादनत्वाख्य विषयताकमित्यनयोः परिमितापरिमितत्वाभ्यां भेदः । अथ सुखस्य भिन्नज्ञानग्राह्यत्वकल्पने गौरवात् स्वप्रकाशत्वमेव युक्तम्, तथा च ज्ञानत्वमेवापन्नमिति चेत्, न । स्वप्रकाशत्वं विनापि तस्य
For Private And Personal Use Only