SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बष्टसहस्री विवरणम् ॥ ॥१२४ ॥ परिच्छेदः प्रथमः॥ च्छिन्नपीताद्यानेकाकारस्वभावमिवानवच्छिन्नसुखाकारस्वभावं ज्ञानमनुभूयमानं तत्तदाकाराणां व्याप्यवृत्तित्वमव्याप्यवृत्तित्वं च गृह्णन केनापि निषेदुं शक्थमिति भावः । अस्वसंवेद्यत्वाप्रतीतेरिति (११८-१-१) सुखादीनामिति सम्बन्धः । 'चैतन्यविशेषेणेति' (११८-१-२) अनुभवेनेत्यर्थः। तस्योत्पत्तिमत्त्वाच्चैतन्यलक्षणत्वाच्च, चैतन्यजीवद्रव्यार्थादेशादिति (११८-१-३) चैतन्याभिनजीवद्रव्यामिन्नत्वेनार्पणादित्यर्थः । न चैवं ज्ञानमात्मैवात्मा तु ज्ञानद्वारा ज्ञानमन्यद्वारा त्वन्य दिति वचनात् , ज्ञानमिन्नसुखाद्यभिन्नजीवद्रव्याभिन्नत्वेनार्पणाद् ज्ञानमप्यज्ञानं स्यादिति शङ्कनीयम् । ज्ञानभिन्नत्वेनार्पितस्य परम्परयापि ज्ञानेऽभेदार्पणानौचित्यात् परमभावग्राहकनयेन ज्ञानाभिन्नत्वस्यैवात्मनि प्रसिद्धेश्च, अतद्रूपाणा-(११८-१-९) मित्याद्यभिधानं सुखादीनां विज्ञानामिन्नहेतुजत्वं यदुच्यते सौगतेन तत्किमुपादानापेक्षयोत सहकार्यपेक्षयेति विकल्पद्वयं मनसि कृत्येति मन्तव्यम् । पूर्व सर्वथा कथञ्चित्पक्षाभ्यां यहूषणमभ्यधायि तस्यैवेदं विवरणमिति न पौनरुक्त्यम् , व्यभिचारादिति (११८-१-१२) द्रव्येन्द्रियानिन्द्रियोपादेयपरिणाम एवेत्यर्थः। प्रत्येतव्या इति (११८-१-१४) नैयायिकादय इति शेषः। अनुमानं च तेषां सुखादयोऽचेतना ज्ञानभिन्नत्वात् घटवदिति द्रष्टव्यम् । अत्राचेतनत्वं यदि ज्ञानभिन्नत्वं तदा हेतुसाध्ययोरविशेषः । यदि च चैतन्यात् प्रविभक्तप्रदेशत्वरूपं तदा कालात्ययापदिष्टो हेतुरिति सुखस्य ज्ञानादन्यत्वरूपो भेदः प्रविभक्तप्रदेशत्वरूपमेदाभावश्चेत्यनेकान्त एव श्रेयान् । अथ सुखस्य ज्ञानविशेषत्व एव चन्दनादिविषयकत्वं युक्तं सुखोत्पत्त्यनन्तरं चन्दनादिज्ञानं कल्पयित्वा तदुपनीतभानात्मकसुखानुभवाभ्युपगमस्य मानससामग्रीविच्छेदेन नियुक्तिकत्वात् । न च चन्दनसुख मनुभवामीत्यत्र चन्दनादिजन्यतावच्छेदको जातिविशेष एव सुखस्योपरि भासते । न तु चन्दनमिति वाच्यम् । तस्य घुसणा CERIES हा॥१२४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy