SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चायममूल्यदानत्रयीं, प्रत्यक्षे स्वसमर्पणेन प्रत्यक्षतास्वीकरणात्, सर्वथा विचार्यमाणस्यापि घटनात् । विचारयिष्यते चैतत्पुरस्तात् । अपरः प्राह, स्कन्ध एव, न वर्णादयस्ततोऽन्ये सन्ति, तस्यैव चक्षुरादिकरणभेदाद्वर्णादिभेदप्रतिभासनात्, किश्चिदङ्गुलिपिहितनयनभेदाद्दीपकलिकाभेदप्रतिभासनवदिति, तदप्यसम्यकू, सत्ताद्यद्वैतप्रसङ्गात् । शक्यं हि वक्तुं सत्तैवैका, न द्रव्यादयस्ततोर्थान्तरभूताः सन्ति, कल्पनाभेदात्तद्भेदप्रतिभासनादिति । न चैतद्युक्तमिति निवेदयिष्यते । ततश्चित्रज्ञानवन्न केवलं सुखाद्यात्मनश्चैतन्यस्य प्रेक्षणं सिद्धम् । किं तर्हि ? वर्णसंस्थानाद्यात्मनः स्कन्धस्यापि । ततः सूक्तं न हि किश्चिद्रूपान्तरविकलं सदेकान्तरूपमसदेकान्तरूपं वा, नित्यैकान्तरूपमनित्यैकान्तरूपं वा, अद्वैतैकान्तरूपं द्वैताद्येकान्तरूपं वा, संवेदनमन्तस्तत्त्वमन्यद्बहिस्तत्त्वं संपश्यामो, यथा प्रतिज्ञायते सर्वथैकान्तवादिभिरिति । सामान्यविशेषैकात्मनः संवित्तिरेकान्तस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनार्हतकल्पनामस्तङ्गमयतीति किं नः प्रमाणान्तरेण । न तावत्सामान्यैकान्तस्योपलब्धिर्विशेषस्याप्युपलब्धेः । नापि विशेषैकान्तस्य, सामान्यस्यापीक्षणात् । न सामान्यविशेषैकान्तयोरेव परस्परनिरपेक्षयोः, एकात्मनोप्युपलक्षणात् । न चैकात्मन एव सामान्यविशेषैकात्मनः, ततो जात्यन्तरस्य संवित्तेः । सर्वं हि वस्तु सामान्यं विशेषापेक्षया विशेषः सामान्यापेक्षया वाऽपोद्धारकल्पनायां स्वरूपेण तु सामान्यविशेषात्मकमेकम् । तस्य संवित्तिश्चक्षुरादिमतामनार्हतकल्पनामस्तङ्गमयति, चक्षुरादिविकलानामेव तत्संभवात् । एकान्तस्यानुपलब्धिर्वा तामस्तङ्गमयतितत एव । तथा हिं । नास्ति सर्वथैकान्तः, सर्वदानेकान्तोपलब्धेरिति स्वभावविरुद्धोपलब्धिः, नास्ति सर्वथैकान्तोऽनुपलब्धेरिति स्वभावानुपलब्धिर्वा सर्वतचक्षुरादेः संवेदनात्सिद्धाऽध्यवसीयते । ननु च ' सर्वथैकान्तस्य कचित्कदाचिदुपलब्धौ न सर्वत्र सर्वदा प्रतिषेधः सिद्ध्येत् । तस्यानुपलब्धौ नानेकान्तेन विरोधः, सत एव कथनित्केनचिद्विरोधप्रतीतेः । प्रतिषेधश्च न स्यात्, तत एव । ' इति कचि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy