SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री| विवरणम् ॥ ॥११९॥ त्तदसत्, सर्वथैकान्तस्याध्यारोप्यमाणस्य प्रतिषेधसाधनात् तद्विरुद्धोपलब्धिसिद्धेस्तत्स्वभावानुपलब्धिसिद्धेश्च, स्वयमन्यथा कस्यचिदनि-18 परिच्छेदः ष्टतत्त्वप्रतिषेधायोगादिष्टतत्त्वनियमानुपपत्तेः अथवा प्रत्यक्षमेव सामान्यविशेषात्मकमेकं वस्तु विदधत्सर्वथैकान्तप्रतीति प्रतिषेधयतीति प्रथमः॥ किं नः प्रमाणान्तरेणानुमानेनानुपलब्धिलिङ्गेन समर्थनापेक्षेण ? प्रयासमन्तरेणेष्टानिष्टतत्त्वविधिप्रतिषेधसिद्धेः । न हि दृष्टाज्येष्ठं गरिमिष्टं, तदभावे प्रमाणान्तराप्रवृत्तः समारोपविच्छेदविशेषाच्च । ननु च दृष्टं प्रत्यक्षमिष्टं पुनरनुमानादि प्रमाणम् । तत्र यथा दृष्टं ज्येष्ठम् , अनुमानादेरप्रेसरत्वात् , तथानुमानाद्यपि प्रत्यक्षात्, तस्यापि तदप्रेसरत्वात् , कचिदनुमानाद्युत्तरकालं प्रत्यक्षस्य प्रवृत्त्युपलक्षणत्वात् । यथा च “दृष्टमविसंवादकत्वाद्गरिष्ठमिष्टात् तथेष्टमपि दृष्टात्,” तदविशेषात् । ततः कथं दृष्टमिष्टाज्येष्ठं गरिष्ठं च व्यवतिष्ठते, न पुनरिष्टं दृष्टादिति न चोद्यमनवद्य, दृष्टस्य लिङ्गादिविषयस्याभावेऽनुमानादेः प्रमाणान्तरस्याप्रवृत्तः, अनुमानान्तराल्लिङ्गादिप्रतिपत्तावनवस्थाप्रसङ्गात् प्रत्यक्षस्यैव नियतसकलप्रमाणपुरस्सरत्वप्रसिद्धयेष्ठत्वोपपत्तेः प्रत्यक्षस्यानुमानादिना विनैव प्रवृत्तेरनुमानादेदृष्टात्पुरस्सरत्वाभावात्, ततो ज्येष्ठत्वायोगाद् , दृष्टस्यैव चेष्टाद्गरिष्ठत्वात् समारोपविच्छेदविशेषात् । न हि यादृशो दृष्टात्समारोपविच्छेदो विशेषविषये प्रतिनिवृत्ताकाङ्गोऽभूणतया लक्ष्यते तादृशोनुमानादेः, तेन सामान्यतः समारोपस्य व्यवच्छेदनात् , दृष्टस्यान्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाञ्च गरिष्ठत्वसिद्धेः । प्रत्यक्षमेव हि स्वविषये सामान्यविशेषात्मकत्वान्वयस्य विधिलक्षणस्य सर्वथैकान्तव्यतिरेकस्य च प्रतिषेधलक्षणस्य स्वभावभेदप्रदर्शनप्रयोजनमुपलक्ष्यते साक्षात् , न पुनरनुमानादि तस्य सामान्यतस्तत्प्रदर्शनप्रयोजकत्वात् । किमर्थं पुनराहतस्येष्टस्य | प्रसिद्धनाबाधनं भगवतोहतः परमात्मकत्वं चाभिधाय सर्वथैकान्तस्य दृष्टेन बाधनं स्वयमसम्मतस्य, कपिलादीनां परमात्मत्वाभावं च सामर्थ्यलभ्यमपि ब्रवीति ग्रन्थकार इति चेत्, अनेकान्तैकान्तयोरुपलम्भानुपलम्भयोरेकत्वप्रदर्शनार्थ तावदुभयमाह मतान्तरप्रतिक्षेपार्थ वा, ॥११९॥ -SCAESCAREERS545 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy