SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir % अष्टसहस्त्री विवरणम् ॥ ॥११८॥ %% % % सिद्धमिति चेत्, न, तस्य प्रत्यक्षप्रसिद्धत्वात् । तथात्मा चेतनः, प्रमातृत्वाद् , यस्त्वचेतनः स न प्रमाता, यथा घटादिः, प्रमाता चात्मा, परिच्छेदः तस्माच्चेतन इत्यनुमानाच तत्सिद्धम् । प्रमितिस्वभावचेतनासमवायादात्मनि चेतनत्वसाधने सिद्धसाध्यतेति चेत्, न, स्वयं सामान्यत- |प्रथमः॥ श्वेतनत्वसाधनात् , तदभावे चेतनाविशेषप्रमितिसमवायायोगात्पटादिवत् , कथञ्चित्तादात्म्यस्यैव समवायस्य साधनात् । चेतनादप्यात्मनः कथममिन्नाः सुखादयो, भिन्नप्रतिभासविरोधादिति चेत्, न, तत्र सर्वथा भिन्न प्रतिभासस्यासिद्धत्वात् , कथचिदिनप्रतिभासस्य कथञ्चिदभेदाविरोधात् , चित्रज्ञानवदेव सुखाद्यात्मनः पुरुषस्यैकस्य घटनात्, सर्वेषामेकानेकात्मनश्चित्रज्ञानस्येष्टत्वात् । तत्सिद्धं चित्रज्ञानवत्कथश्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य प्रेक्षणं तथा वर्णसंस्थानाद्यात्मनः स्कन्धस्य च । न हि वर्णादीनामेव प्रेक्षणं प्रत्यक्षबुद्धौ, न पुनः स्कन्धस्यैकस्येति कल्पनमुपपन्नं, सर्वाग्रहणप्रसङ्गात्, स्कन्धव्यतिरेकेण वर्णादीनामनुपलम्भात् स्कन्धस्येवासत्त्वात् । अथ 'प्रत्यासन्नासंसृष्ठा रूपादिपरमाणवः प्रत्यक्षाः, तेषां स्वकारणसामग्रीवशात्प्रत्यक्षसंविजननसमर्थानामेवोत्पत्तेः, स्कन्धस्यापि तत एव परेषां प्रत्यक्षतोपपत्तेरन्यथा सर्वस्कन्धानां प्रत्यक्षत्वप्रसङ्गात् , स्कन्धत्वाविशेषात् । तदविशेषेपि केषाञ्चित्प्रत्यक्षत्वे परेषामप्रत्यक्षस्वभावत्वे पिशाचशरीरादीनां तथा खकारणादुत्पत्तेः परमाणूनामपि केषाश्चित्प्रत्यक्षत्वमन्येषामप्रत्यक्षत्वं तत एवास्तु, किमवयविपरिकल्पनया ? तस्याऽमूल्यदानक्रयित्वात् । स हि प्रत्यक्षे स्वात्मानं न समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छतीत्यमूल्यदानक्रयी, विकल्पबुद्धावेव तस्य प्रतिभासनाद्विचार्यमाणस्य सर्वथानुपपन्नत्वात्' इति मतं तदप्यसंगतमेव, प्रत्यासन्नासंसृष्टपरमाणूनां तथात्वेन कस्यचित्कदाचिनिश्चयासस्वात् प्रत्यक्षतानुपपत्तेः, स्कन्धस्यैव स्फुटमध्यक्षेऽवभासनात् तथा निश्चयनाच्च प्रत्यक्षत्वघटनात् । न च परमाणुवत्सर्वे स्कन्धाः समपरिमाणा एव, येन केषांचित्प्रत्यक्षत्वे सर्वेषां प्रत्यक्षस्वभावता स्यात् , अणुमहत्त्वादिपरिमाणभेदेन तेषामदृश्येतरस्वभावमेदाढ़ेदसिद्धेः । न IM॥११८॥ h C For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy