________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
-
मिति चेत् , न । मूर्छाद्यवस्थाव्यावृत्तज्ञायमानदुःखनिवृत्तेरेव सुखहेतुत्वात्तस्याश्च मुक्तावप्यव्याहतत्वात् , तथापि सिद्धत्वमष्टकर्मक्षयजनितः साधनन्तः पारिणामिको भावः, सिद्धिसुखं च वेदनीयकर्मक्षयजनितम् , इति केयं वाचो युक्तिः सिद्धत्वमेवानन्तसुखमिति. समनियतत्वेन चैक्याश्रयणे सिद्धगुणाष्टकोपदर्शकव्याघात इति सिद्धत्वग्रहणेऽप्यनन्तसुखाग्रहणान्यूनत्वदोषः सूत्रस्यापरिहृत एवेति चेन्मैवम् , सिद्धत्वेनानन्तं सुखमुपलक्ष्यत इति न न्यूनत्वमित्यत्र तात्पर्यात् , अन्यत्रोपलक्षणत्वेनाविवक्षायां च सूत्रकर्तुः स्वतन्त्रेच्छत्वस्यैव शरणत्वात् , अत एवोचुः कंठरवेण विहितसहृदयाल्हादाः क्षमाश्रमणपादाः," तस्सोदइआईआ भवत्तं च विणिवत्तए समयं । सम्मत्तनाणदंसणसुहसिद्धत्ताइ मोतूणं ॥१॥” इति, इत्यपर इति (१०४-२-७) तौतातित इत्यर्थः । तदाहुरुदयनाचार्याः "नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः" इति तौतातिता इति, सोऽपीति, युक्त्यागमबाधश्च तौतातितस्य, सुखमात्रस्यादृष्टादजन्यत्वेन नित्यसुखे मानाभावादात्मरूपस्यैव सुखस्योपगमे तन्नित्यतया सुखनित्यत्वे संसारदशायामप्यात्माभिन्नतदभिव्यक्ती मुक्तिप्रसंगाद्दःखात्यन्तनिवृत्तेरेव नित्यसुखत्वप्रकारकाभिव्यक्तिहेतुत्वे विशेषणासिख्या तस्याभ्रमजनकत्वापत्तेरस्यार्थस्य निष्कर्षे नित्यस्य सुखस्याभिव्यक्तिनित्या वा सुखाभिव्यक्तिर्मोक्ष इत्यनुच्छिद्यमानसुखज्ञानधारात्मकमोक्षवादिदीधितिकृन्मतस्यैव पर्यायार्थादेशपेशलमतिप्रपश्चिंतस्य साम्राज्यापत्तेः, द्रव्यार्थादेशे तु साधनन्तं सुखं तादृशी तदभिव्यक्तिश्चेत्युभयमपि मुक्तौ प्रामाणिकम् , तदाह, 'तदनन्तं सुखमित्यादि' (१०४-२-७) सातसंवेदनस्येति (१०४-२-९) सुखमात्रस्य स्वसंवेदनव्याप्यसत्ताकत्वनियमेनासंवेद्यमानस्य सुखत्वविरोधादित्यर्थः। ते वेदान्तिनः, परमात्मन इति (१०४-२-९) तस्यैव सच्चिदानन्दरूपत्वेन श्रुत्युक्तत्वादित्यर्थः । एवं सम्प्रधार्यम् (१०४-२-१०) एवं विचार
For Private And Personal Use Only