________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
AAAAAAAAAAAAC
णीयम् । 'अन्यथा द्वैतप्रसङ्गादिति' (१०४-२-१२) सुखं ब्रह्म चेत्युभयस्य जागरूकत्वादित्यर्थः । अथासुखव्यावृत्तिरेव सुखं ब्रह्मेति न द्वैतप्रसङ्ग इति यदि विभाव्यते, तदाऽतव्यावृत्त्याऽनन्तगुणात्मस्वभावावस्थितिरूपमुक्तिवादेऽपि न द्वैतप्रसङ्गो भविप्यतीति सन्तोष्टव्यम् , मन्यतामिति (१०४-२-१४) योगधर्ममहिम्ना जातस्य सर्वविषयकज्ञानस्य नाशकाभावेनाकालमनुवृत्ते| रित्यर्थः । न च तपोविशेषफलं सार्वयं शापानुग्रहादिसामर्थ्यवत् कस्यचिदेव, मुक्तिस्तु सर्वस्य नित्यसत्यचिदानन्दस्वरूपैवेत्यपि वक्तुं युक्तम् । सार्वज्ञस्यात्मस्वभावताया व्यवस्थापितत्वात्तत्प्रतिबंधककर्मक्षयस्य सर्वमुक्तसाधारणत्वात्तपोविशेषस्यापि ब्रह्मप्राप्त्यार्थिना सार्वयिसिद्धये क्रियमाणत्वाञ्चति दिक् । सौगतमतमुपन्यस्य दूषयति येऽपीत्यादिना (१०४-२-१४ ) 'प्रदीपेत्यादि' (१०५-१-१) प्रदीपनिर्वाणोपमं शान्तस्य निर्वाणमित्येतन्मतं यथा युक्त्याभ्युपायेन च बाध्यते पूर्वावस्थात उत्कृष्टजात्यप्राप्तेस्तदर्थिप्रवृत्त्यौपयिकयुक्तिवाधान्नाशस्य निर्हेतुकत्वाभ्युपगमेन कारणबाधाच तथा “निराश्रवचित्तसन्तानोत्पत्तिर्मुक्तिः" इति मतमपि आश्रवानाश्रवचित्तानां बन्धमोक्षसामानाधिकरण्यानुरोधार्थमेकद्रव्यान्वयाश्रयणावश्यकत्वे केवलपर्यायोद्देश्यकप्रवृत्त्यनुकूलयुक्तिवाधादाश्रवचित्तध्वंसरूपायास्तस्या निर्हेतुकत्वेनाभ्युपायबाधाच, तथा च मोक्षः पुरुषार्थो न स्यात् अनाश्रवचित्तक्षणेष्वेका जातिमङ्गीकृत्य तदवच्छिन्ने चरमाश्रवचित्तक्षणस्य हेतुत्वे त्वेकैकक्षणस्य कार्यकारणकोटिमध्यप्रवेशे | विनिगमकामावस्तत्तत्क्षणस्य कुर्वदूपत्वानिश्चये प्रवृत्त्यभावश्च ताचिकोऽयं कार्यकारणभावो व्यावहारिकस्त्वन्य एवेति न मोक्षार्थ मायासूनवीयशास्त्रसिद्धदीक्षादिग्रहणानुपपचिरिति चेत्, न । चित्तात्मनः परिणामित्वमविद्यादिशब्दवाच्यमर्थान्तरं योगसामर्थ्यनाश्यं तन्मुक्तियोग्यतां च व्यवहारतो मोक्षार्थिप्रवृत्तेः कथमप्यघटनात्तत्रितयोपगमे च स्याद्वादिमतस्यैव साम्रा
।११३॥
For Private And Personal Use Only