SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir CA पादकत्वेन मीमांसव प्रमाणं नोपनिषदिति रिक्तं वचः, उपनिषदोऽप्यपूर्वपरमब्रह्मप्रतिपादकत्वेनाविशेषात् , ऐच्छिकविशेषग्रहस्य च पक्षपातमात्रत्वादित्युक्तं भवति, स एवार्थः स्यादिति (३५. १. १४) लोके वेदे च शब्दव्युत्पत्तेस्तुल्यत्वादिति भावः । ये तु प्राभाकरा वेदस्यापौरुषेयतया वक्तज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत, लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धरनुवादकतामात्रं वाक्यस्येति निर्णीतवन्तः, तेषां लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाधयतां तदलायातप्रतिपादकत्वस्य लोकेऽप्यविशेषाद जरतीयन्यायापातः, तदुक्तं "निर्णीतशक्तेर्वाक्याद्धि, प्रागेवार्थस्य निर्णये । व्याप्तिस्मृतिविलम्बेन, लिङ्गस्यैवानुवादिता ॥१॥” इति, यावती हि वेदे सामग्री तावत्येव लोके भवन्ती कथमिव नार्थमवगमयेत् , लिङ्गं तु परिपूर्णमप्यवगतमपेक्षणीयव्याप्तिस्मृतिविलम्बात् किं निर्णतुं प्रगल्भताम् , अन्वयस्य प्रागेव प्रतीतेरनुवादकपतिप्रवेशात् । न च लोके वक्तुरातत्वनिश्चयोऽपेक्षणीय इति तद्विलम्बादर्थप्रत्ययविलम्बः, लोकेऽप्याप्तोक्तत्वानिश्चयेऽप्यर्थप्रतीतेस्तस्य तदहेतुत्वात् , कथमन्यथा वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येष्वपौरुषेयत्वाभिमानिनो गौडमीमांसकस्यार्थप्रत्ययः, न चासौ भ्रमः, पौरुषेयत्वनिश्चयेऽपि तदबाधात् । न चानाप्तोक्तत्वशंकानिरासद्वारैव तदुपयोगः स च क्वचिदपौरुषेयत्वनिश्चयात् क्वचिदाप्तोक्तत्वावधारणादिति न दोष इति वाच्यम् , एवं छपौरुषेयत्वस्याप्रतीतौ संदेहे वा वेदो न किश्चिदभिधत्त इत्याप्तोक्तत्वनिश्चयोत्तरकालं लोक इव वेदेऽप्यपौरुषेयत्वनिश्चयोत्तरकालमनुमानप्रवृत्तावनुवादकत्वाविशेषापत्ते१रुद्धरत्वात् । तदुक्तमुदयनाचायः कुसुमाञ्जली "व्यस्तपुंदूषणाशकैः, स्मारितत्वात्पदैरमी । अन्विता इति निणीते, वेदस्यापि न तत् कुतः॥१॥” इति, अमी पदार्थाः, तदनुवादकत्वम् , 4- 45- 46-4 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy