SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥६६॥ परिच्छेदः प्रथमः॥ SACAR मेतन्मयाख्यातं स्याद्वादेनाविरोधभाक् ॥१॥ जले जलतरङ्गवन्ननु निमजनोन्मजने, सृजन्ति निजपर्यवाः प्रतिकलं पदार्थे पृथक् । विमुच्य भजनाविधि, क इव तद्विवेके प्रभुः, स एव हि विजृम्भते विशदकेवलज्ञानवत् ।।२।।" सधनं हन्यादित्यादेरिवेति (३५. १. ६) तृष्णामूलकहिंसाविषयकत्वेनोभयोरविशेषादित्यर्थः, धर्म इति धर्मे वाच्ये बलवदनिष्टाननुबन्धित्वांशे वेत्यर्थः, प्रमाणत्वानुपपत्तेरिति ( ३५. १.६) "न हिंस्यात् सर्वभूतानीति" सामान्यवचनविरोधादित्यर्थः । न च सामान्यशास्त्रतो विशेषशास्त्रस्य बलवत्त्वान्न हिंस्यादित्यतः पूर्व हिंसात्वसामानाधिकरण्येन पापजनकत्वग्रहेऽनन्तरं विशेषशास्त्रपर्यालोचनायां तत्तदितरहिंसात्वेन तत्कल्प्यत इति न विरोध इति वाच्यम् । सर्वपदसमभिव्याहारेण हिंसात्वावच्छेदेनैव सामान्यवचनतः पापजनकत्वलाभात्, कार्यान्तरार्थमाश्रितेऽपि विशेषविधावुत्सर्गनिषेधोक्तदोषापरिहाराद्वैद्यकोक्त इव दाहविधौ, तस्मात्तृष्णामूलकहिंसात्वावच्छेदेनैव सामान्यनिषेधपर्यवसानाद्भूत्याद्युद्देशेन यागादिविधयस्तद्विरोधित्वादप्रमाणमेव, तदेकवाक्यत्वाच्च निखिलोऽपि वेद इति मन्तव्यम् । यत्तु प्रतिपदोक्तफलत्यागेन विविदिपार्थतया कर्मकाण्डस्यापि प्रामाण्यमिति वेदान्तिपशुभिरुघुष्यते, तदज्ञानविलसितं, भिन्नाधिकारविहिते कर्मणि तत्त्यागापरप्रवेशाभ्यां विविदिषार्थताया असिद्धेः, अन्यथाऽभिचारोद्देशेन वेदविहितं श्येनयागमपि विविदिषार्थतया किमिति नाद्रियेरन् । तदवदाम "वेदोक्तत्वान्मनाशुद्ध्या, कर्मयज्ञोऽपि योगिनः। ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ॥ १॥ भिन्नोद्देशेन विहितं, कर्म कर्मक्षयाक्षमम् ।। क्लप्तभिन्नाधिकारं च, पुढेष्ट्यादिवदिष्यताम् ॥२॥” इति, अत्यधिकमेतत्तत्त्वं लतायां स्फुटीकृतमस्माभिरिति, विशेषार्थिना तत एवावधार्यम् । अपूर्वार्थत्वं पुनरिति (३५, १.७) लोकप्रमाणविषयार्थत्वं पुनरित्यर्थः, तेनापूर्वप्रति ALSOCCAUSAMEER ॥६६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy