________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ACANCCC05-05%A4
धातो मार्यान्वितसाध्यत्वाख्यविषयतारूपविभक्त्यर्थान्वयित्वेनैव गौणसकर्मकत्वव्यवस्थितेः, यत्यर्थे तु नामान्वितचतुर्थ्यर्थोद्देश्यत्वस्यैवान्वयान्न यतेः सकर्मकत्वमिति भट्टाचार्योक्तं समाधान रमणीयम् , यतेश्चतुथ्यैव साकाङ्गत्वमिति नियमस्वीकार एव तथा वक्त्तुं शक्यत्वात् , न च तत्र प्रमाणमस्ति, धर्मे यतेत इत्यादिप्रयोगस्याप्यविगानं दर्शनात् , न चैतदुभयान्यतरसाकाङ्क्षत्वेन तत्र यत्नार्थकधातौ साध्यत्वाख्यविषयितान्वयित्वेन सकर्मकत्वव्यवस्थयैव च निस्तारः, सप्तम्या विषयित्वमात्रोपस्थितावपि साध्यत्वाख्यविषयितात्वावच्छिन्नानुपस्थितेरित्यपि शक्यं वक्तुम् , विशेषानुशासनं विना शब्दासाधुत्वस्य भोजनं यतत इत्यादावाबाधेनार्थासाधुत्वस्य चानुपपत्तेरिति दिक, यतत इत्यादौ यत्नानुकूलो व्यापारो योगाख्य एव भावना, यदि यत्नश्चेष्टा यदि च करणवीर्यमसौ तदा लब्धिवीर्यमेव सा, फलव्यापारयोर्द्धर्मिभेदाभावाच्चाकर्मकत्वं, व्याप्रियत इत्यादावपि शक्तिव्यक्तिभेदेनान्ततः फलसंसृष्टव्यापारमादाय धात्वर्थविशेष्यकबोधःस्वीकर्तव्यः, जानातीच्छतीत्यादौ व्यापारद्वयादौ भेदाग्रहादेकरूपावच्छेदेन कारकफलान्वयः सङ्ग्रहादेशात् व्यापारे फलान्वये समानपदोपात्तत्वस्य भेदाग्रहगर्भस्यैव नियामकत्वात् । अत एव चैत्रमैत्रौ घटं पश्यत इत्यत्राप्यगृहीतभेदे दर्शनद्वये उभयाश्रयकत्वान्वयः, कर्तृभेदोत्थापितव्यापारभेदस्यापि सङ्ग्रहनयादेशप्रतिबन्धेन ग्रहीतुमशक्यत्वादिति मन्तव्यम् , पाक इत्यत्रैकस्य साध्यसाधनावस्थाभिधानमपि स्याद्वादाश्रयणेनैवाविरुद्धं, रूपभेदेन तदुपपत्तेः, क्रियमाणं कृतमिति नयेन पचतीत्यादौ सिद्धत्वनियतसाध्यत्वस्य क्रियाकालनिष्ठाकालाभेदकतस्य सर्वत्र भावेऽपि घअन्तस्थले कारकक्रियान्वयकृतसाधनसाध्यावस्थयोः स्वातव्येण भानान्न विविक्तशाब्दिकव्यवहारोच्छेद इत्यादिकमुपपादितम् , 'नयरहस्ये 'ऽस्माभिरिति तत एवावंगन्तव्यम् । " नियोगादिप्रवादानां, परस्परविरोधिनाम् । तत्त्व
For Private And Personal Use Only