SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandir अष्टसहस्री विवरणम् ।। ॥६५॥ परिच्छेदः प्रथमः॥ सूत्रं श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने आदाबुपन्यस्तं प्रभुभिः, इत्थमेवास्तीत्यत्रापि स्वपर्यायोत्पत्त्यनुकूलस्वद्रव्यपरिणतिरूपभावनाप्रतीतिः सङ्गच्छते, स्वार्थफलव्यधिकरणव्यापाराबोधकत्वाच धातोर्न सकर्मकत्वं, स्पष्टभावनानवबोधे च फलसामानाधिकरण्यमेव दोषः, यत्तु स ततो गतो नवेति प्रश्ने महता यत्नेन तिष्ठतीति प्रयोगात् सत्तारूपफलानुकूला भावनात्र प्रतीयत इति भूषणसारकृतोक्तं, तदसत्, आकाशोऽस्तीत्यादावगतेः, तत्र तत्तदवकाशदानादिना विशिष्टोत्पादानुकूलधौव्यरूपसत्तास्वीकारे चास्मन्मताश्रयणापत्तेः, त्रैलक्षण्यसत्पदार्थस्यास्माभिरेव स्वीकारात् । तदुवाच वाचकचक्रवर्ती-' उत्पादव्ययध्रौव्ययुक्तं सत्' इति, आत्मानं जानातीत्यादावेकस्यैवात्मनो याकारप्रतियोगित्वानुयोगित्वादिना कर्मत्वं कर्तृत्वं च, विवक्षातः कारकाणि भवन्तीति न्यायस्य सर्वशाब्दिकानुमतत्वात् , स्वार्थफलाधिकरणभिन्नाधिकरणवृत्तिव्यापारवाचित्वं सकर्मकत्वमित्यत्र च भेदस्य वैवक्षिकस्यैव निवेशात् । यत्त्वत्र द्वावात्मानौ शरीरात्माऽन्तरात्मा च, तत्रान्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखेऽनुभवतीति भूषणसारवचनं, तदुर्वचनम् , एकस्यात्मपदस्य धातोश्च विशेषपरत्वापत्तेः, परमात्मात्मानं जानातीत्यत्रागतेश्व, हन्तैवमस्तीत्यादावपि द्रव्यपर्याययोापारफलाधारयोर्भेदविवक्षया | सकर्मकप्रयोगापत्तिरिति चेत् , सिद्धान्तानभिज्ञोऽसि 'किं हन्तेति' पूत्कारेण, अस्तीत्यादौ भेदवचनस्य सम्प्रदायविरुद्धत्वेनानिटसाधनत्वज्ञानात्तद्विवक्षाया अयोगात , इत्थं च "आत्मानमात्मना विभ्र-दस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥१॥” इति, बिभ्रदित्यनेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत एव, तेन कर्मणा सकर्मकत्वं तु न, अन्तर्भावात् फलांशेन वैयधिकरण्याविवक्षणादिति व्याख्येयम् । न चात्र साध्यत्वाख्यविषयतामादाय गौणं सकर्मकत्वं यत्नार्थक ॥६५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy