________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
CACACAMAR
एव निपुणं प्रगल्भते ॥ १॥ सर्वज्ञोपज्ञमनेकान्तवादमवलम्बमानैः पुनरस्माभिः सर्वमेवोपपादयितुं शक्यम् , व्यवहारनयानुसारिणां नैयायिकानां नामार्थविशेष्यकस्येव शब्दनयानुसारिणां शाब्दिकानां भावप्रधानमाख्यातमिति वदतां धात्वर्थविशेष्यकस्यापि बोधस्य जायमानस्य वाङ्मात्रेण निराक मशक्यत्वात् , नयव्युत्पत्तिवैचित्र्याधीनस्य फलीभूतशाब्दबोधवैचित्र्यस्य दृष्टेष्टाविरुद्धत्वात् , अत एवानुलोमप्रतिलोमक्रमेण तत्तत्प्रकारवैत्रिव्यभानमपि व्याख्यातम् । हन्तैवं तण्डुलं पचति चैत्र इत्यतश्चैत्रकर्तृकक्रियाफलाश्रयत्वेन तण्डुलमुख्यविशेष्यकोऽपि बोधः स्यादिति चेत्, तथा व्युत्पन्नस्य स्यादेव, अत्र चानुशासनमूलशब्दनयव्युत्पत्त्यधीनो बोध उद्देश्य इति नायं प्रसङ्गः। पचतीत्यत्र विक्लित्यनुकूलव्यापारस्याधःसन्तापनादेः प्रातिस्विकरूपेणाखण्डेन च भावनात्वेन नयव्युत्पत्तिवैचिच्याद् द्विधा भानम् , साध्यत्वस्य च व्यापारे फलस्यानुकूलतारूपसंसर्गावच्छेदकतयैव भानं, साध्यत्वावच्छिन्नानुकूलताया एव संसर्गत्वोपगमात् , तस्य च साध्यत्वस्य क्रियमाणं कृतमिति नये सिद्धत्वावरुद्धसाध्यत्वत्वेनान्यनये च शुद्धसाध्यत्वत्वेन भानमित्यन्यदेतत् । घटो नश्यतीत्यत्रापि द्रव्यार्थत्वनियामकसम्बन्धेन घटाभिन्नाश्रयकस्य सङ्घातभेदादिरूपनाशानुकूलव्यापारस्य भानं, घटं जानातीत्यत्राप्यनेनैव सम्बन्धेन घटवृत्युत्पत्तिकज्ञेयाकाररूपव्यापारभानम् , यत्तु, भूषणसारकृतोक्तं जानातीत्यत्रावरणभङ्गावच्छिन्नबोधव्यापार एवार्थोऽतीतानागतस्थलेऽपि ज्ञानजन्यस्यावरणभङ्गस्यावश्यकत्वादतीतो घटो ज्ञायत इत्यादावतीतघटादेस्तदाश्रयता च विषयताया इव नैयायिकानां सत्कार्यसिद्धान्ताद्वेति, तदापातरमणीयं, नैयायिकसाङ्ख्यमतयोः परस्परपरामर्दोपहतत्वात् , भेदाभेदसदसत्कार्याभ्युपगन्तस्याद्वादवादिमार्गाश्रयणं विना च अबोधप्रवृत्तेः, अत एव शब्दानां निष्पत्तिं ज्ञप्तिं चाधिकृत्य 'सिद्धिः स्याद्वादादिति
MANORAN
For Private And Personal Use Only