SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ ॥६७॥ परिच्छेदः प्रथमः॥ %A तस्मादियं प्राभाकरवृद्ध कल्पनाऽज्ञानमूलैवेति मन्तव्यम् । ततः सुगतादिवदिति (३५-२-२) यथा सुगतादयः परस्परविरुद्धभापित्वेन न प्रमाणं तथा श्रुतयोऽपि नानावादिविप्रतिपत्तिकवलितार्थाभिधायित्वान्न प्रमाणमित्यर्थः । प्रामाण्यं चात्र प्रमाऽयोगव्यवच्छेदरूपं वाच्यम् , अन्यथा प्रमातृत्वाभिमते सुगतादौ तनिषेधेऽप्रसक्तप्रतिषेधापत्तरिति स्मर्त्तव्यम् । चार्वाकमतमुत्थापयितुमाह भाष्यकृत् तथेष्टत्वादित्यादि (३५-२-३) तद् व्याचष्टे वृत्तिकृत् नापि समय (३५-२-३) इत्यादि, अदेवतारूप इति (३५-२-५) चार्वाकमताद्यप्रवर्तकमनुष्यरूप इत्यर्थः । प्रत्यक्षमेकमिच्छन्ति य इति (३५-२-६) तथा च भाष्ये एकेपामित्यत्र एकं प्रमाणमिच्छन्तीत्येकेषश्चार्वाकास्तेषामिति व्याख्येयमित्यर्थः । इष्टिः प्रतिज्ञा, अभावसिद्धेरिति (३५-२-१०) अभावप्रसङ्गादित्यर्थः। प्रमाणान्तरस्येति (३५-२-१२) प्रत्यक्षातिरिक्तप्रमाणस्येत्यर्थः। तद्वचनस्य (३५-२-१२)सर्वज्ञवचनस्य, हेतुवादरूपस्य(३५-२-१३)हेतुग्राह्यार्थविषयस्य, अहेतुवादरूपस्य (३५-२-१३) आज्ञाग्राह्यार्थविषयस्य, स एव सर्वज्ञ एव, अतिप्रसङ्गस्य दुष्परिहरत्वादिति, (३६-१-१) तथा च प्रतियोगितद्व्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानरूपायास्तर्कितप्रतियोगिसवप्रसञ्जितप्रतियोगिकत्वरूपाया वा योग्यताया अभावात् योग्यानुपलब्ध्यसम्पत्त्या न प्रत्यक्षं तदभावग्राहकं, तत्सहकृतस्यैव तस्य तदभावग्राहकत्वनियमादिति फलितम् , न चासत एव सर्वज्ञादेः प्रमाणान्तरस्य वाऽऽभाससिद्धस्याभावः शशशृङ्गस्येव प्रत्यक्षतः सुज्ञान इति वक्तुं शक्यम्, अनुपलम्भकाले आभासोपलम्भकसामग्र्या अभावात् , तत्काले चानुपलम्भाभावात् तस्याशक्यनिषेधत्वात् । तदुक्तं " दुष्टोपलम्भसामग्री, शशशृङ्गादियोग्यता । न तस्यां नोपलम्भोऽस्ति, नास्ति सानुपलम्भने॥शा" इति, शशशृङ्गं नास्तीत्यस्य च शशे शृङ्गाभावोऽस्तीत्येवार्थ इति बोध्यम् , 4 A5% ॥६७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy