________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
अष्टसहस्त्री विवरणम् ॥ ॥२२॥
परिच्छेदः प्रथमः॥
परपरिहारसहितो विधिः शब्दार्थ इति चेत्, तहि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकान्तवादस्य प्रतिष्ठा, प्रतिषेधैकान्तवादवत् । स्यान्मतम् , परपरिहारस्य गुणीभूतत्वाद्विधेरेव प्रवृत्त्यङ्गत्वेन प्राधान्याद्विधिः शब्दार्थ इति। कथमिदानी शुद्धकार्यादिरूपनियोगव्यवस्थितिर्न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यङ्गतया प्रधानत्वोपपत्तेः, नियोज्यादेस्तत्रापि गुणीभावात् । तद्वत्प्रेरणादिस्वभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् तदितरस्य सतोपि गुणभावाध्यवसायायुक्तो नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु स्वाभिप्रायात् कस्यचित्प्रधानभावेपि पराभिप्रायात्प्रधानत्वाभावात् तदन्यतरस्यापि स्वभावस्याव्यवस्थितेनॆकस्यापि शब्दार्थत्वमिति चेत्, तर्हि पुरुषाद्वैतवाद्याशयवशाद्विधेः प्रधानत्वेऽपि ताथागतमताश्रयणादप्रधानताघटनात् सोऽपि न प्रतिष्ठामापोत, विप्रतिपत्तिसद्भावाविशेषात् । स्यान्मतिरेषा ते, विधेरेव सर्वत्र प्रधानता, प्रवृत्त्यङ्गत्वोपपत्तेः, न पुनः प्रतिषेधस्य, प्रवृत्यङ्गतानुपपत्तेः, कचित्प्रवर्तितुकामो हि सर्वस्तद्विधिमन्वेषते, तत्र पररूपप्रतिषेधान्वेषणे परिनिष्ठानुपपत्तेः, पररूपाणामानन्त्यात् कचित्प्रतिषेद्धमशक्तेश्व, तद्धि पररूपं न तावत्स्वयमप्रतिपद्य क्रमशः प्रतिषेद्धं शक्यम् , प्रतिषेधस्य निर्विषयत्वप्रसङ्गात् , नापि प्रतिपद्य, तत्प्रतिपत्तेरपि पररूपप्रतिषेधापेक्षत्वात् , तस्यापि च प्रतिपन्नस्यैव प्रतिषेधेनवस्थानुषङ्गात् , युगपत्सकलपररूपप्रतिषेधे परस्पराश्रयानुषङ्गात्, सिद्धे सकलपररूपप्रतिषेधे प्रतिपित्सितविधिसिद्धिस्तत्सिद्धौ च तत्परिहारेण तत्प्रतिपत्तिपूर्वकसकलपररूपप्रतिषेधसिद्धिरिति ।
For Private And Personal Use Only