________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
45405645625
हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा। किंतहि ! द्रष्टव्यो रेऽयमात्मा श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्य इत्यादिशब्दश्रवणादवस्थान्तरविलक्षणेन प्रेरितोऽहमिति जाताकूतेनाकारेण स्वयमात्मैव प्रतिभाति, स एव विधिरित्युच्यते, तस्य च ज्ञानं विषयतया सम्बन्धमधितिष्ठतीति प्रधानभावविभावना विधेर्न विहन्यते, तथाविधवेदवाक्यादात्मन एव विधायकतया प्रतिभासनात् , तद्दर्शनश्रवणानुमननध्यानरूपस्य विधीयमानतयाऽनुभवात् , तथा च स्वयमाऽऽत्मानं द्रष्टुं श्रोतुमनुमन्तुं ध्यातुं वा प्रवर्तते, तथा प्रवृत्त्यसम्भवे ह्यात्मनः प्रेरितोऽहमित्यवगतिरप्रामाणिकी स्यात् , ततो नासत्यो विधिर्येन प्रधानता तस्य विरुद्ध्यते नापि सत्यत्वे द्वैतसिद्धिः, आत्मस्वरूपव्यतिरेकेण तदभावात् , तस्यैकस्यैव तथाप्रतिभासनादिति । तदप्यसत्यम्, नियोगादिवाक्यार्थस्यापि निश्चयात्मकतया प्रतीयमानत्वात् , तथा हि | नियोगस्तावदग्निहोत्रादिवाक्यादिव द्रष्टव्योरेऽयमात्मेत्यादिवचनादपि प्रतीयत एव, नियुक्तोऽहमनेन वाक्येनेति निरवशेषो योगः प्रतिभाति, मनागप्ययोगाशङ्कानवतारादवश्यकर्त्तव्यतासम्प्रत्ययात्, कथमन्यथा तद्वाक्यश्रवणादस्य प्रवृत्तिरुपपद्यते, मेघध्वन्यादेरपि प्रवृत्तिप्रसङ्गात् । किञ्च शब्दाद् द्रष्टव्योऽ रेऽयमात्मेत्यादेरात्मद्रष्टव्यतादिविधिस्तदद्रष्टव्यताव्यिवच्छेदरहितो यदीष्यते तदा न कस्यचित्प्रवृत्ति| हेतुः, प्रतिनियतविषयविधिनान्तरीयकत्वात्प्रेक्षावत्प्रवृत्तः, तस्य चातद्विषयपरिहाराविनाभावित्वात् , कटः कर्तव्य इति यथा, न हि कटे कर्त्तव्यताविधिरतयवच्छेदमन्तरेण व्यवहारमार्गमवतारयितुं शक्यः ।
For Private And Personal Use Only