________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तदेतदनालोचिताभिधानं मण्डनमिश्रस्य सर्वथा विधेरपि प्रवृत्त्यङ्गतानुपपत्तेः, सर्वो हीष्टे वस्तुनि प्रवर्त्तितुमना जनोऽनिष्टपरिहारं तत्रान्वेषते, अन्यथानिष्टेऽपि प्रवृत्तौ समीहितव्याघातप्रसक्तेः, अनिष्टप्रतिषेधश्च प्रत्यक्षादिवत् कुतश्चिद्वाक्यादपि शक्यः प्रतिपत्तुम्, केवलविधिप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् केवल भूतलप्रतिपत्तेरेव घटाभावप्रतिपत्तिसिद्धेः, न ह्ययं प्रतिपत्ता किञ्चिदुपलभमानः पररूपैः सङ्कीर्णमुपलभते, यतः प्रमाणान्तरात्तत्प्रतिषेधः साध्यते, न च सर्वथा तैरसङ्कीर्णमेव, सदाद्यात्मनापि तदसङ्करे तस्यासत्त्वप्रसङ्गात् परस्मात्कथञ्चिद्व्यावृत्त्यव्यावृत्यात्मकं च कुतश्चित्प्रमाणादुपलभमानोऽर्थी परव्यावृत्तिद्वारेण वा प्रवर्त्तते विधिद्वारेण वेति विधेरिवान्यापोहस्यापि प्रवृत्यङ्गत्वोपपत्तेर्न विधेरेव प्राधान्यम्, विधात्रेव प्रत्यक्षमुपनिषद्वाक्यं चेति नियमस्यासम्भवात्, अन्यथा ततो विद्यावदविद्याविधानानुषङ्गात् । सोऽयमविद्याविवेकसन्मात्रं कुतश्चित्प्रतीयन्नेव न निषेद्ध प्रत्यक्षमन्यदेवेति ब्रुवाणः कथं स्वस्थः ? कथं वा प्रत्यक्षादेर्निषेद्धत्वाभावं प्रतीयात् ? यतस्तत्प्रतिपत्तिः तस्यैवाभावविषयत्वसिद्धेः । प्रत्यक्षादेर्विधातृत्वप्रतिपत्तिरेव निषेद्धृत्वाभावप्रतिपत्तिरिति चेत्, तर्हि सिद्धं भावाभावविषयत्वं तस्येति न परोदितो विधिर्वाक्यार्थः सिद्ध्यति, नियोगस्यैव वाक्यार्थत्वोपपत्तेः प्रभाकरमतसिद्धिः । स एव वाक्यार्थोऽस्त्वित्ययुक्तम्, धात्वर्थवन्नियोगस्य परोपवर्णितस्वरूपस्य वाक्यार्थतया प्रतीत्यभावात्, सर्वत्र भावनाया एव वाक्यार्थत्वप्रतीतेः । सा हि द्विधा; शब्द भावनाऽर्थ भा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir