________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३
अर्थसंग्रहः ।
प्रधानक्रमेण योऽङ्गानां क्रमः स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव क्रमेण तेषामङ्गान्यनुष्ठीयन्त चेत् तदा सर्व्वेषामङ्गानां खैः खैः प्रधानैस्तुल्यं व्यवधानं भवति ।
Acharya Shri Kailashsagarsuri Gyanmandir
भावः । तः सवनीयसैव प्रथमोपस्थिते । युक्तम् पाठात् स्थानसा वलवत्तयान्याय्यम् । इतरयोः अग्रौषोमीयानुवन्ध्ययोः । पश्चादिति । तयोः कुमस्तु वाधकाभावात् प्राकृतपाठादेव द्वितीयमनीषोमीयानुष्ठानं तृतीयमनुवन्ध्यानुष्ठानमित्येवं रूप इति बोध्यम् । इतुप्रक्तम् सूत्रकारभाष्यकारादिभिरितिशेषः । तथाच पञ्चमाध्याय पृथमपाद सूत्रम् ।
स्यानाच्चीत्पत्तिसंयोगादिति ।
अत्र भाष्यम् । “अथाव पाठकमात् किमग्रीषोमीयः पूर्बमालब्धव्य उम स्थानकुमात् पूव्वं सवनौय इति । कि प्राप्तम्, अग्रीषोमीय इति, कुतः, पाठकुमात्, एवं प्राप्त ब्रूमः । सवनीयः पूर्व्वम् स्थानात्, यदि पूर्व्वमग्रीषोमीयः स्यात् सवनीयस्थानं व्याहन्येत, अश्विनं गृहीत्वा विनता यूपं परिवौयेति । ननु इतरत्रापि पाठकुमो वाध्यते, वाध्यतां, तसा हि प्रतिषेधार्थः सह शब्दः समाम्नातः अप्रतिषिद्धञ्चाश्विनग्रहस्थानं तन्न वाधितव्यमिति । "
मुख्यक्रममाह प्रधानक्रमेणेति । नेकप्रधानयाग एकत्रैकप्रयोगान्तर्गतत्वेन विहितस्तथा तद्यागोयत तद्धविः सम्वन्धिकच विहितं तवेदमुच्यते । तथाच तत्तत् प्रधानं येन क्रमेणानुष्ठेयत्वेन विहितं हविः सम्बन्धिकच तेनैव क्रमेणानुष्ठेयमित्यर्थः । एतदेव व्यनक्ति येन होति । तेषामङ्गानि तत्तद्यागौय हविः सम्बन्धिकर्माणि । ख: स्वसम्बन्धिविरङ्गकः । तुल्यं व्यवधानमिति । एकमात्रकर्मान्तरितत्वरूपव्यवधानं तुल्यमित्यर्थः । तथाहि आदी प्रथमानुष्ठेय प्रधानयागीयहविः सम्वन्धिक कृत्वा अनन्तरं पश्चादनुष्ठेयप्रधानयागोय हविः सम्वन्धिकर्म समाप्य यदि प्रथमानुष्ठवप्रधानयागं पश्चादनुष्ठेयप्रधानयागञ्च कृमेण समापयेत्, तदा प्रथमानुष्ठेयागीयहविः सम्बन्धिकर्माणः स्वप्रधानेन प्रथमानुष्ठययागेन एकमाव
For Private And Personal