SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। सहकतमिति साहित्यव्यवहाराभावात् । सचाविलम्वो नियते क्रमे आधीयमाणे भवति । अन्यथा किमेतदनन्तर सहकतमेतत् कर्म कर्त्तव्यमिति प्रतीते विलम्बेन तत्तत्कम्मानुष्ठाने तदनुपपत्तिरिति भावः । एतेनाधापत्तिरेवाविलम्ब प्रमाणमिति दर्शितम् । विलम्बितानुष्ठाने सहकारिसहकतत्वानुपपत्तौ हेतुमाह विलम्वे नेति। साहित्यव्यवहारैति । दिवाराविक्रियमाणयो जनयोरेकभीजनसहितमपरभोजनमिताादिसाहिताव्यवहाराभावादितार्थः। एवञ्च यदि साहितयानुपपत्तिवलेनैवाविलम्वकल्पनं तदाङ्गप्रधानयोरिव प्रधानानामप्या यादीनामविलम्वे नानुष्ठानं सिध्यति परस्परसाहिताप्रतीताविशेषादिति बोध्यम् । अविलम्वस्तु प्रामाणिकवैधकमान्तराव्यवधानम्। वैधतिविशेषणात् पुरीडाशदितीमक्षिकापसारणादौ कपि तथा अप्रामाणिकेति विशेषणात् क्षुतादावाचमने लतेपि ना विलम्बहानिः। अतएव पूर्वेदारग्निं गृहाति उत्तरमहर्यजतीति श्रुतेरन्तरा सायंसध्याद्यनुष्ठानं न दोषाय । प्रामाणिकत्वात् । एवं पौर्णमासानुष्ठितपौर्णमासयागदर्शानुष्ठितदर्शयागयोरेकयागत्वे पि न क्षतिः । नतु अप्रामाणिक कालान्तराव्यवधानमविलम्बः । कालपदसा क्षणपरत्वे असम्भवः । स्थूलकालपरत्वे तु प्रातरेकच यागमारभ्य कतिचित् कर्माणि कृत्वा ग्रहान्तरे यजमानान्तरं याजयित्वा तयागसमापनेपि न क्षतिः स्यादितादिकमालोचनीयम् । . ननु प्रयोगविधिना परस्परसाहिताप्रतिपादनमुखेनाविलम्ब विधानेपि कि प्रयाजाद्यनुष्ठानानन्तरमाने याद्यनुष्ठानमुताग्ने याद्यनुष्ठानानन्तरमेव प्रयाजाद्यनुष्ठानमितात्र विनिगमनाविरहः। उभयथाप्यविलम्बसम्पोरितात आह सचेति । नियते क्रम कमाणां क्रमनियमे। आश्रीयमाणे अङ्गौक्रियमाणे। भवति सिद्धी भवति। क्रमानङ्गीकार कुतोऽबिलम्बासिद्धिरित्यत्र हैतुमाह अन्यथेति। क्रमा नीकार इतार्थः । प्रयोगविक्षेपः प्रयोगनानारूपत्वं । तथाच समिधी यजति तनूनपातं यजति इड़ी यजति वर्हिर्यजति स्वाहाकार यदतीतुक्तप्रयाजानुष्ठानवेलायां केनचित् समियागान्तरं तनूनपाद्यागमनुष्ठाय इड़ादियागः क्रियेत । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy