________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
४३
आर्थभावनाङ्गत्व समानाभिधानश्रुतैरेव । एकपदश्रुत्याच यागाङ्गत्वम् । नचामायास्तस्याः कथं भावनाङ्गसमितिवाच्यम् । कर्तपरिच्छेदहारा तदुपपत्तेः । कत्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोचते साच कर्तारं विनानुपपन्नेति ।
यजेतेति। आख्यातेति। ईत-प्रत्ययस्य प्रथमपुरुषैकवचनतया तेनाखवातेन एकत्वसङ्ख्या भार्थी भावनाचीच्यते । तयोश्चैकोक्तिप्रतिपाद्यत्वेन सन्निहितत्वादकत्व सङ्ख्याया आर्थभावनोपकारकत्वमेकाभिधानथुतिसिद्धमित्यर्थः। अत्रैव एकपद श्रुतेरुदाहरणं दर्शयति एकपदेति। एकपदं यजेतेति तिङन्तपदं, तद्रूपया श्रुत्या यागाङ्गत्वम् एकत्वसङ्ख्याया इत्यनुषज्यते । अमूर्तीयाः सङ्ख्याया भावनाङ्गत्वानुपपत्तिशङ्कामपनयति नचेति। अमूर्तीया गुणपदार्थत्वेन मूर्तिरहितायाः। तस्या एकत्वसङ्ख्यायाः। कथमिति । अमूर्तस्य वस्तुनः खातन्त्रण विनियोगासम्भवादिति भावः । भावनाङ्गत्वं भावनीपयोगित्वम्। निराकरणे हेतुमाह कत्तपरिच्छे देति । कर्तुरितरव्यावर्तनहारेत्यर्थः। तदुपपत्तेभीवनीपकारकत्वोपपत्तेः। ननु स्वार्थों द्रव्यञ्च लिमञ्च सङ्ख्या कादिरेवच। अमी पञ्चैव लिङ्गास्त्रियः केषाञ्चिदग्रिमा इत्युक्त लिङ्गस्य पुंस्वादः प्रातिपदिकार्थतैव प्रतिपद्यते। न च पशु नेताब “आङी नाऽस्त्रियामिति (१) व्याकरणम्म तया नादेशवलात् पुंस्वप्रतीतेस्तस्य वैभत्विकार्थत्वमवेतिवाच्यम् । नादेशस्य प्रकृतेर स्त्रीलिङ्गत्वस्यैव द्योतकत्वात् । पुंस्वस्त्रीत्वे तु प्रातिपदिकप्रतिपाद्य एव पशुभिरितत्रादौ विभक्तया तत् प्रतिपादयितुमशक्यत्वात् । तत् कथमेकत्वपुंस्तुयोरेकोक्ति प्रतिपाद्यत्वसम्भव इतिचेन्न। मीमांसकमते शक्यतया जातेरेव प्रातिपदिकार्थत्वेन लिङ्गसङ्ख्यादीनां वैभक्ति कार्थत्वावश्यकत्वात् । अतएवीतम् ।
एक एक क इतान्ये दावितान्ये बयोऽपरे । .. चतुष्कं पञ्चकञ्चान्ये चतुष्के मूत्रमुच्यते ।।
(१) प्राचा मते आडिति टाविभक्त : मना ।
For Private And Personal