________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२८
न्यायप्रकाशः।
तापदेशात् । तेन व्यपदेश उपमानम् । तदन्यथानुपपत्त्येति यावत् । तथाहि यदिधेयं तस्य सुतिर्भवति ।
तयद्यत्र श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः काया। न च यथा वै श्येनो निपत्यादत्त इत्यनेन अत्रत्येनार्थवादेन श्येनः स्तोतुं शक्यः । श्ये नोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात्।
एवञ्च तापदेशशब्दप्रयोगस्य तत्सूबमूलकत्वात् वयं प्रयुक्तमपि सं शब्दं खयमेव व्याचष्टे तेनेति । अतएव तत्प्रख्यशब्दस्यापि सौबलेन स्वयमेव व्याख्यानः प्राकृतम् । उपमानं सादृश्याभिधानम्। ननु सादृश्याभिधानेऽपि कथं यागस्य तन्नामकत्वकल्पनमित्यत पाह तदन्यथानुपपत्त्येति । एतेन तापदमादित्यस्य सादृश्याभिधानानुपपत्तेरित्येव पर्यवसितोऽर्थ इति सिध्यति। तत्मादृश्याभिधानस्यान्यथानुपपत्तिं व्यञ्जयति तथाहौति । स्तुतिः प्रशंसा। भवति अर्थवादैः करणीया भवति ।
श्येनो विधेयः श्येननामा पक्षौ गुणत्वेन विधेयः। तस्यैव श्येनरूपगुणस्यैव । ननु स्तुत्यर्थवादैः श्येनरूपगुण एव स्तूयतामित्याशङ्का निराकरोति न चेति । यथेति । श्येनः. पक्षिविशेषो यथा निपत्य पतित्वा आदते अन्य पक्षिविशेष ग्टहाति एवमयं विपन्न मारव्यं निपत्यादत्त इत्युत्तरप्रतीकेनान्वयः। अवत्येन श्येनयागविषयकेण। एवमयमित्यतरप्रतीकस्थेनायमित्यनेन प्रक्रान्तये नयागपरामर्शात् । उत्तरप्रतीकार्थस्तु एवं श्येनपक्षिण: पक्ष्यन्तस्यहणवत् पयं प्रकान्ती याग: मिपत्य अदृष्ट हारा सम्बध्य हिषन्तमारधविरोधं घाटव्यं वैरियम् पादले घातयतीति ।
श्येन: पक्षिविशेषः । शक्य इति । न ऐति पूर्वेणान्वयः। अर्थवादन श्येनपक्षिरूपगुणस्तुतेरशक्यत्वे हेतुमाइ श्वेगोषमानेनेति। श्वेनसादृश्येनेत्यर्थः । पर्थान्तरेति श्येनेतरपदार्थेत्यर्थः । तदेवोपपादयति न चेति। तख गुणत्वेनाभिमतश्येनपक्षियः । भिन्ननिष्ठत्वादिति। तथाच उपमा सादृश्यं तव सहिदवे सति तगतभूयोधर्मवत्त्वम् । एवञ्च सादृश्यस्य परस्परभेदसापेक्षतया येनीपमीयते यो वा उपमीयते तत्त्वं विभिन्न वस्तुनिष्ठमेव भवति। न पुन: खेनैकोपमानेन खमेवोपमेयं स्यादिति भावः। तथाचीन भपादः।
For Private And Personal