SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | षङ्गः । Acharya Shri Kailashsagarsuri Gyanmandir वाच्या तृतीयाभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनैवान्वययोग्यत्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृतीयाभिहितम् । करणशब्दादिव antaraस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्वय योग्य गुण निष्ठ करणत्वोपस्थितिलक्षण• यैव वाच्या । लक्षण्या चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभावनायां यत्करणत्वं तदपि लक्षण्यैव वाच्यम् । श्रूयमाण्टतीयया गुणमात्रस्य यागं प्रति करणत्वाभिधानात् । १८८ एतमेवाभिप्रायं व्यञ्जयन् लाचणिकत्वं विशदयति तृतीयाभिहितस्येति । तृतीयया करणकारकत्वमेवाभिधीयते तस्यैव क्रियान्वययोग्यत्वं न तु तस्य करणकारकस्य करणत्वप्रकारेणान्वययोग्यता । भवम्मते तृतीयाभिहितकरणत्वस्य करणत्वाङ्गीकारादिति भावः । ननु यदि यागाश्रितेनीह्निनिष्ठ करणत्वेन पशुं भावयेदित्येव वाक्यं प्रयुज्येत तदा करणवेनेति तृतीयया करणत्वप्रतीतेरावश्यकतया करणत्वस्य करणताप्रकारेणान्वयवी रवश्यम्भाविनो । तत्कथं करणत्वस्य करणत्वोपस्थितिर्लचणये वेत्युच्यत इत्यत आह करणशब्दाभिहितमिति । करणेति प्रातिपदिकाभिहितमित्यर्थः । करना कारकं करणत्वम् । तत्त्वन करणत्वेन । अन्ववयोग्यमिति । करणबोधकप्रातिपदिकोत्तरवर्त्तिन्या तृतीयया 'करणत्वप्रतीतेः करणत्वस्य करणताप्रतिपत्तिः सुघटैवेति भावः । प्रकृते तु तन्न सम्भवतीत्याह नेति । तृतीयाभिहितमिति । करणकारक मित्यनुतथाच तृतीयया यत्करणत्वं प्रत्याय्यते तस्य पुनः करणत्वं कथं प्रतीयेत, तत्प्रत्यायकतृतीयान्तराश्रवणादिति भावः । यदि तु तथाङ्गीक्रियते तदा तृतोयोत्तरं टतौयान्तरोत्पत्तिप्रसङ्ग इत्याह करणशब्दादिवेति । अत इति । करणत्व करताया प्रतीतेरित्यर्थः । लक्षणान्तरमपि तदुभयपक्षयोरापततीत्याह लक्षणया चेति । उह्नित्यदीत्तरं श्रूयमाणायाष्टतोयायाः करण करणताबोधकता रूपलचणया, प्रधानौभूतार्थ बोधिकायास्तस्या गुणीभूत: घंत्रीषकतारूपलचण्या चेत्यर्थः । करणत्वस्य, करणतायाः करणत्वस्य । गुणमात्रस्येति 1 कारकविभक्तः स्वप्रक्कृतिभूत पदवाच्यस्य तत्कारकताबोधकत्वनियमेन उह्नित् For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy