SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तस्मादयथा वैश्वदेवीशब्दोपात्तविशेषसमर्यकत्वेनामिक्षापदस्य वैखदेवोशब्देन सामानाधिकरण्यम् एवं सामान्यस्याविधेयत्वायज्यवगतविशेषसमर्पकत्वेन नामधेयस्य. यजिना सामानाधिकरण्यम् । तमिदं नामधेयाना विधयार्थपरिच्छेदकतयाघवत्त्वम् । ययाहुः । तदधीनत्वाद्यागविशेषसिद्धेरिति । नामधेयत्वञ्च निमित्तचतुष्टयात्। मत्वर्धलक्षणाभयात्, वाक्यभेदभयात्, तत्प्रख्यशास्त्रात्, तद्यपदेशाचेति। तत्रोद्भिदा यजत पशुकाम इत्यत्र उनिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात् । तथाहि उद्भिच्छब्दस्व गुणसमर्पकत्वे प्रलीयते । एवम् उक्त कारण त्रयाणां. विश्वदेवपदतद्धितीपस्थाप्यसव नामपदषयकवचनानाम् एकवाक्यता मिलितार्थबोधकतेत्यर्थः । अत्र सर्व नाना आमिक्षापदार्थः प्रतीयत इत्यु त्या वैश्वदेवी पदस्थानन्यपरत्वं कित्वामिक्षापरत्वमेव । श्रामिक्षापदन्तु तत्परि-- चाय कमिति सिध्यति । दृष्टान्त दार्शन्तिकयो: सादृश्यं विशदयति सम्मादिति। सामान्यस्य यागसामान्यस्य । यजौति । यजधातूपस्थितयागविशेषबोधकत्वे नेत्यर्थः। उपसंहरति तत्सिमिति । नामधेयस्य विधेयार्थपरिच्छेदकत्वे वात्तिककारसम्मतिमाह यदा हुरिति । ननु नामधेयार्थों न विधीयत इति पूर्वपचे वार्तिककारे रुक्तम् । तदधीनत्वादिति । यागविशेषसिद्धांगविशेषज्ञानस्य मामधेयाधौनत्वादित्यर्थः । तथाच यजेतेति विधिना यागसामान्यस्य विधातुमशक्यतया यागविशेषविधानमेव निश्चयम् । स च निषयो नामधेय मन्तरेण न सम्भवतीति सस्य विधेयार्थ परिच्छेदकत्व मिति भावः ।। ननु सोमैन यजेतेत्यादीनामपि नामधेयत्वमस्वित्यतसत्कल्पनानिमित्तमुपदर्शयति नामधेयत्वञ्चेति । निमितचतुष्टयादिति । तथाच वक्ष्यमाणमिमित्त चतुष्टयान्यतमनिमित्तसद्भाव एव सामानाधिकरण्येनान्वय कल्पनया नामधेयत्वमङ्गीकार्य नान्य धेति भावः । निमित्त चतुष्टयमाह मत्वर्थेत्यादि । उदाहरण माह तत्रेति । तेषु निमित्तेषु मध्ये । मत्वर्थ लक्षणां विशदति तथाहौति। गुणसमर्पकत्वे गुणमावविधायकत्वामीकार। गुणविधानं ब्रीहिभिर्यजेतेन्यत्र बौहिरूपा गए व त् उछिद्रूपगुणविधानम्। प्रयुक्त वे हेतुमाह For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy