________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
१४८
ख्यानि । तत्र क्रमपरवचनं श्रुतिः। तच्च विविधं केवलक्रमपरं तदिशिष्टपदार्थपरञ्च। तत्र वेदं कृत्वा वैदिं करोतीति केवलक्रमपरम् । वैदिकरणादेवचनान्तरेण विहितत्वात् । वषटकर्तः प्रथमभक्ष इति तु क्रमविशिष्ट पदार्थपरम् ।
तवेति । क्रमपरवचनं क्रमवाचकः शब्दः । श्रुतिरिति । तथाविध शब्दस्य श्रवणमात्रेणैव क्रमप्रतीतेः। अतएव यदर्थस्थाभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते स श्रुत्यावगम्यत इत्युक्तं भाष्यकारैः। उक्तलक्षणां अति विभजति तच्चे ति। केवलेति । पदार्था नुवादेन क्रममावविधायक मित्यर्थः । यत्र प्रमाणान्तरेण कर्मप्राप्तं क्रमस्व प्राप्तस्तत्र क्रमविशिष्ट कर्मप्रतिपादकवाक्यस्य कमानुवादेन क्रममावविधायकत्वम् । कर्मणः प्रमाणान्तरप्राप्तत्वेनाविधेयत्वात् । वविशिष्टेति। क्रमविशिष्ट पदार्थ विधायकमित्यर्थः । यत्र पदार्थस्तत्क्रमवाप्राप्तौ तत्र तत्प्रतिपादकवाक्यस्य विशिष्टविधायकत्वम्। क्रमकर्मणोईयोरम्यप्राप्तत्वेन विधेयत्वावश्यक त्वान् ।
आद्यस्योदाहरणमाह तत्रेति । तयोः क्रमपरवचनयोर्मध्ये इत्यर्थः । वेदं कृत्वेति । वेदो नाम दर्भमयं सम्मार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गालखाता भूमिरिति माध्वाचार्याः । तत्र क्वाप्रत्ययस्य पूर्व कालमोधकतया वेदवेदिकरणयो: पौवापर्य प्रतिपादकत्वेन क्रमपरवचनत्वात् श्रुतित्वम् । एवमथ ततःप्रभृतिपदानामपि । पथास्य कमविशिष्ट कर्मप्रतिपादकस्य केवल क्रमविधायकत्वे किं मानमित्यत आह वेदिकरणादेरिति । वचनान्तरेणेति । दर्शपौर्णमासयोहविरधिवासनोत्तरं वेदिकरणादि. विधायकवाक्यप्राप्तत्वादित्यर्थः। तथाच वेदि करणाद: प्रमाणान्तरप्राप्ततया विधातुमशक्यत्वात्र क्रमविशिष्टपदार्थविधायकत्वं, किन्तु प्रमाणान्तराप्राप्तस्य क्रमस्वैव विधायकत्वमिति भावः।
श्रुतेहितीयप्रकारमुदाहरति वषडिति। वषटकर्ता होतेति माधवाचार्याः । ज्योतिष्टोमे पैतुहीतुश्चमसः प्र ब्रह्मणः प्रोगातृणामित्यादिश्रुतिभिर्भक्षणार्थचमधातुनिष्पन्नचमसशब्दबोधितभक्षणेन होत्रादीनां सर्वेषामविजा यज्ञशेषभक्षणं समाख्यया प्राप्तम् । इदानीन्तु वाक्यान्तरेण प्राथम्यविशिष्टं सोमभक्षणं होतुर्विधीयते वषट कत्तुः प्रथमभक्ष इति। ननु होतु: समाख्ययैव भक्षणमाप्तः प्राथम्यस्य चाप्राप्त स्तदेवाच विधीयत इतौदमपि क्रम
For Private And Personal