________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१४१
न चैवं प्राधान्याददृष्टवाञ्च फलप्रयुतात्वमेव किं न स्यादिति वाच्यम्। फलभावनायां यागस्य करणत्वादङ्गानाच करणानुग्राहकत्वात् तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन स्वापूर्वमेवोपस्थाप्यते, सत्रिकर्षात् । दीक्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते, विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् । अतएव अगन्म सुवः सुवरगम्मेति मन्त्री विकतावूहितव्य इत्युक्तं
प्रधानापूर्व जायत इत्येवं शब्दप्रमाणं तावन्नास्त्येव । परन्तु अपूर्वस्याप्रत्यक्षतया प्रत्यक्षा. नुमानादेरपि नात्रावसरः। अनुमानादेरपि प्रत्यक्षीपजौवकत्वादिति भावः ।
अङ्गानां फलार्थत्वं निराकरीति न चैवमिति । प्राधान्यात् फलस्य मुख्य प्रयोजनवात् । अदृष्टत्वात् स्वर्गादेरिदानीमप्रत्यक्षत्वात्। तथाच फलस्याप्रत्यक्षतया अङ्गानां तजनकत्वाभावस्यानुपलब्धिगम्य त्वमपि न सम्भवतीति भावः। फलप्रयुक्तत्वं फलार्थ त्वम् । करणानुग्राहकत्वादिति । कथं कुर्यादिति करण प्रकारविशेषाकाङ्गानिवर्तकत्वादित्यर्थः । तदर्थत्वे तत्फलत्वे । बुद्धे तत्तदङ्गेन तत्तयागं भावये दित्यवगते । तत्र करणांशे । पानर्थक्येति । करणीभूतयागाद्युत्पादनासमर्थतया निष्कलवप्रसक्तावित्यर्थः । तेन यागपदैन । स्वापूर्व खजन्यमपूर्वम् । उपस्थाप्यते लक्षणया बोध्यते।
ननु करणीभूतयागादावङ्गविधिबोध्यभावनान्वयानुपपत्त्या यागजन्यफल एवान्वयोऽस्त, कुती भावनाया यागनन्यापूर्वान्वयमङ्गीकरीषोत्यत पाह सन्द्रिकर्षादिति । तथाच यागात् साक्षादपूर्वमेव नायते । फलन्तु न साचाट्यागजन्यम्, किन्तु तदपूर्वजन्यम् । एवञ्च यागपद जन्यत्वेन लक्षणायां सबिष्टस्य तज्जन्यापूर्वस्यैवोपस्थितिः सम्भवति, न वि. प्रकष्टस्य स्वर्गादिफलस्येति भावः। पत्रैव दृष्टान्त उक्ती दीक्षीयादौति । वाङनियमे दीक्षणीयादिपर्य था लक्षणया तत्सदपूर्वमुपस्थाप्यते तददित्यर्थः । तत्प्रयुक्तत्वम् अङ्गामा फलार्थत्वम् ।
अतएव पङ्गानामपूर्वार्थत्वादेव । पगमेति । सुवः स्वरित्यर्थः । खरित्येव पाठी भाष्यादौ । मन्त्रः दर्शपौर्णमासप्रकरणे श्रुती ब्रौद्यवघातमन्त्रः । विकृतौ सौर्ययागे। अहितव्य इति । अगा खरित्यत्र पगम्म ब्रह्मवर्चसमित्येवमूहितव्य इत्यर्थः । विकते: सौर्ययागरस ब्रावसिफलकलादिति भावः। उक्तं पार्थसारथिमित्रैः ।
For Private And Personal