________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
पदार्थगोचरावाश्च । काण्डवाचकत्वमपि न काण्डत्वेन, किन्तु पौरोडा शिकत्वादिनैव । न हो कहायनीशब्दो द्रव्यवाचकोऽपि गोवेन तद्ददति, किन्तर्हि एकहायनीत्वेनैव ।
स्थानविनियोगे तु पदार्थयोर्विशेष पुरस्कारणैव सम्बन्धः प्रत्यक्षप्रमाणप्रतिपत्रः । अतश्च समाख्यामुपलभ्य नूनमनयो: पदार्थयोः सम्बन्धोऽस्तीति यावत्कल्पाते तावप्रत्यक्ष प्रतिपन्नेन सम्बन्धेन परस्परमाकाङ्क्षा कल्पते । तदभावे च सम्बन्धानुपपत्तेः । कल्पितसम्बन्धेन च यावदितरत्राकाङ्गादि कल्पाते, तावदन्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते । इति सिद्धं स्थानस्य समाख्यातः प्राबल्यम् ।
1
त्वादित्यर्थः । काण्डेति । पौरोडाशिकपदस्य काण्ड विशेषपरत्वेनेत्यर्थः । तत्तत्पदार्थेति । शुन्धनमन्वादिपरत्वाभावादित्यर्थः । तथाच पौरोडाशिकपदेन काण्ड विशेषस्यैवोपस्थितिः । तत्काण्डपतिकर्म्मणान्तु तत्काण्डीयत्वेनोपस्थानं न तु तत्तत्कर्मत्वेनेति भावः । काण्डोपस्थितिरपि न साक्षात् किन्तु पुरोडाशसम्बन्धित्वेनेत्याह कारणवाचित्वमपीति । यौगिकशब्दात् सर्व्वचैव सामान्यधमेंणैवोपस्थितिर्न विशेषधर्मेणेत्याह नहीति । द्रव्यवाचकोऽपि मोरूपद्रव्यवाचकोऽपि । तत् गोरूपं द्रव्यम् ।
स्थानविनियोगस्य समाख्याविनियोगाच्छोप्रोप स्थितिकत्वं प्रतिपादयति स्थानेति । विशेष पुरस्कारेणेति विशेषधर्मवत्त्वेनेत्यर्थः । तथात्वेऽपि शीघ्रविनियोजकत्वं कुत इत्यचाह चतश्चेति । कल्प्यते अर्थापच्या निश्चीयते । परस्परमाकाङ्क्षा प्रकरणरूपा । तदभावे आकाङ्क्षाभावे । सम्बन्धानुपपत्तेरिति । सम्बन्धाकाङ्गादिप्रयोज्यत्वादिति भावः । कल्पितेति । समाख्या कल्पितेत्यर्थः । इतरत्र स्थानेन यत्र विनियोगः क्रियते तदितरत्र | अन्यत्र समाख्यया यत्र विनियोगः क्रियते ततोऽन्यत्र । वाक्यादीति । तथाच समाख्यत्रा सम्बन्ध कल्पनानन्तरमाकाङ्क्षा कल्पनं तेन च वाक्यादिकल्पमं ततो विनियोगप्रतीति: । स्थानेन तु न सम्बन्ध कल्पनं तस्य प्रत्यवप्रमाण सिद्धत्वात् । प्रथमत jarat दिकल्पनमिति शीघ्रोपस्थितिरिति भावः ।
For Private And Personal