SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। दर्शपौर्णमासपदञ्च कालनिमित्तम् । तद्योगश्चाग्नेयादिषुत्पत्तिवाक्यैरवगतः। अतस्तहाचित्वेन दर्शपौर्णमासपदं प्रसिद्धम् । न चाग्ने यादीनां बहुत्त्वात् हिवचनान्तत्वमस्यानुपपत्रमिति वाच्यम्। विवहाकाइयसिद्धसमुदायहयाभिप्रायेण तदुपपत्तेः । यत्र श्रुत्यन्तरमर्थावबोधकं नास्ति तत्र पदविशेषस्थानवधारये सति निश्चितार्थे: पदैरेव तदर्थावधारणं कर्तव्यमिति भावः। निरूढ़ प्रसिद्धार्थन्तु पदं प्रमाणान्तराभावेऽपि खार्थान्नापनीयते मुन्यादन्यत्र न नीयत इत्यर्थः । तथाच राजसूयपदस्थार्थ ग्राहकप्रमाणाभावेनानिशितार्थतया प्रधानीभूताख्यातपरतन्त्रत्वमेव युक्तम् । दर्शपोर्णमासपदस्य तु प्रसिद्धार्थतया नात्यातपारतवाणान्यत्र नेयत्वमिति भावः। दर्शपौर्णमासपदस्य कथं प्रसिद्धार्थ त्वमिन्यवाह दर्शपौर्णमासपदश्चेति । कालति । काल: कालविशेषो दर्श: पौर्णमासी च निमित्तं प्रवृत्तिनिमित्तं यस्य तत्तया । तथाच अमावास्यायाममावास्यया यजत पौर्णमास्यां पौर्णमास्या यजैतेति गुत्या प्रमावास्यायां ययष्टव्यं तद्दर्शसंज्ञं यच्च पौर्णमास्यां यष्टव्यं सत्पौर्णमाससंशमिति प्रतीतरमावास्यापौर्णमासीकर्तव्ययागविशेषरूपेण प्रथममेवावधार्यत इति नाज्ञाता) सन्दिग्धार्थ वा दर्शपौर्णमासपदमिति भावः । नवाने यादिवत् प्रयाजादौनामपि दर्शपौर्णमासीकर्तव्यतायोगात् काल विशेषानिमित्तलागीकारऽपि प्रयाजादीनामपि वाचकं दर्शपौर्णमासपदमस्वित्यत पाइ तद्योगयेति । दर्शपौर्णमासौ कर्तव्यतारूपी योग इत्यर्थः । भागेयादिषु पाग्नेयादिष्वेव। उत्पत्तिवाक्यैरिति । भान योऽष्टाकपालीमावास्थायां पौर्णमास्याचाच्युती भवति । उपाण्याजमन्तरा यजति । ताभ्यामग्रीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत् । ऐन्द्रं दध्य. मावास्यायाम्। ऐन्द्रं पयोऽमावास्यामित्येतैरित्यर्थः । तथाच दर्शपौर्णमासी कर्तव्य याग विशेषावगमाय भाग्ने योऽष्टाकपाल इत्यादिकर्मखरूपचापकोत्पत्तिवाक्यरूपपृथक श्रुतिलाभात् पाख्यातप्रवत्तिज्ञानात् प्रागेव तदोधितकर्मखेव दर्शपौर्णमासपदं प्रवर्तते। तत्र प्रयाजादौनामुलेखाभावान प्रयाजादिषु । राजसूये नु तादृशपृथक् श्रुत्यभावाद्राजसूयपदार्थावधारणायाख्यातपदप्रतिरनुसन्धेयैवेति भावः । दर्शपौर्णमासपदस्याग्न यादिषड्यागवाचकत्वात् डिवचनान्त त्वानुपपतिरिति माध्यमिकामपाकरोति न चेति। विदिति । वेदविदित्यर्थः । वाक्यइयम्. प्रमा For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy