SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। . नापि दध्येव केवलं करणत्वेन विधीयत इति युक्तम् । केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः । कर्तव्यापारव्याप्यत्वनियमात् करणत्वस्य । किं तर्हि विधीयत इति चेत् दध्नेति तृतीययोपात्तं दधिकरणत्वम्। फलभावनायां करणत्वेन विधीयते। प्रत्ययार्थत्वेन दनोऽपि तस्य प्राधान्यात् । एवञ्च दधिकरणवेनेन्द्रियं भावयेदिति वाक्यार्थः । करणत्वञ्च किं _ विधीयते प्रतिपाद्यते । केवलस्य दन: करणत्वेन विधानस्यायुक्तत्वे हेतुमाह केवलस्येत्यादि । व्यापारानाविष्टस्य कर्तृव्यापाररहितस्य । व्यापारानाविष्टस्य करणत्वानुपपचौ हेतुमाह कर्तृव्यापारेति । कर्णधौनव्यापाराभाववदत्तित्वनियमादित्यर्थः । अय. माशयः । करणत्वं व्यापारवत्कारणत्वम् । व्यापारहारण क्रियाजन्यफलनिवर्तकत्वमिति यावत्। तच्च गृहस्थितस्य कुठारादेश्छेदनक्रियाजन्यकाष्ठाद्यवयवविभागरूपफलनिष्पादकत्वाभावदर्शनात् कर्णधीनव्यापारमन्तरेण न सम्भवति । सम्भवति तु तथाविधव्यापारसम्बन्धादेव । तत्र च कर्तुंरुद्यमननिपातनक्रियाजन्य काठकुठारसंयोगो व्यापारः । इह तु पलौकिके इन्द्रियजनने दधी द्रव्यस्य ग्रहस्थित कुठारस्येव करणत्वं न सम्भवत्येव । यद्यपि कुठारेण काष्ठं छिनत्तौति लौकिकवाक्ये करणत्वाभिधानादेव कुठारकाष्ठसंयोगरूपी व्यापार: प्रतीयते तथापि दधेन्द्रियं भावयेदित्यलौकिकवाक्ये दनः करणत्वाभिधानेऽपि अलौकिकेन्द्रियजनने दधी व्यापारस्य प्रत्यक्षादिप्रमाणागोचरतया करणताबुद्धिदुर्घटा। वतिना सिन्धतौतिवदप्रामाण्यमेवापद्येत वाक्यस्येति । तस्मात् यस्य करणत्वमभिमतं तद्दर्शयितुमाह किं तहीति। दधिकरणत्वं दधिनिष्ठं करणत्वम् । फलभावनायामिन्द्रियभावनायाम् । ननु प्रातिपदिकार्थस्य दनः करणत्वमुपेक्ष्य तृतीयार्थ करणत्वस्थ करणत्वाङ्गीकारे किं वौजमित्यवाह प्रत्ययार्थ त्वेनेति। दनोऽपौति । प्रातिपदिकार्थदध्यपेक्षयेत्यर्थः। प्राधान्यादिति । द ति पदेन दधिनिष्ठ करणत्वप्रतीतौ दनी विशेषणतया करणत्वस्य तु विशेष्यतया भानादिति भावः। दधिकरणत्वस्य करणत्वविधाने वाक्यार्थं दर्शयति एवञ्चेति। ननु यदि फलभाषमायां दधि न करणं किन्तु तत्करणत्वमेव करणं तर्हि तत्करणत्वं किं. सम्बन्धि ? करणत्वस्य ससम्बन्धिकतया सम्बन्धिविशेषसाकाचत्वादित्याह करणत्वञ्चेति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy