________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
२३
गुणफलविधिः सम्भवेत् वाक्यभेदाभावात् । परन्तु अनिष्टुति रेवतोसम्बन्ध एव न प्राप्यते । एवञ्च निष्टुति रेवती सम्बन्धस्तासु च रेवतीषु वारवन्तीय सम्बन्धस्तस्माच्च फलमिति विधातव्यम् । तदा वाक्यभेदापत्तिरतः कर्मान्तरविधिरेव पशुकामो रेवतीषु वारवन्तोयं साम गौत्वा यजेतेति । तथाच भाष्यकारः, न ह्येतस्य रेवत्यः सन्ति यासु वारवन्तीयं भवेत् । तत्र रेवत्यो भवन्ति तासु च वारवन्तीयं विधीयते इति वाक्यं भिद्येतेत्युक्तम् । ननु रेवत्याख्यग्गणान्तगौयमानवारवन्तीय सामकरणत्वेन यागाश्रितेन पशुं भावयेदिति विधानान्न वाक्यभेदसम्भव: । होमाश्रितन दधिकरणत्वेनेन्द्रियं भावयेदितिवत् । यदि तु तथाविधसामकरणत्वस्याप्यप्राप्ततया विधेयत्वात् विधेयभेदेन वाक्यभेद आवश्यक उच्यते, तदा दघ्नोऽपि होमकरणत्वस्याप्राप्तत्वेन विधेयत्वसम्भवात् तत्रापि वाक्यभेदी दुर्वार इति चेन्न । दध्न द्रव साम्म्रो यागकरणत्वस्यासम्भवात् । तथाहि साम्म्रो न यागाश्रितत्वं किन्तु तदङ्गभूतस्तोत्रसम्बद्धत्वम् । अङ्गहारेण सत्यप्युपकारकत्वे चाश्रयाश्रयित्वं न सम्भवतीति दृष्टान्तवैषम्यम् । देवतोद्देशेन द्रव्यत्यागरूपस्य यागस्य द्रव्यदेवताघटिततया दृष्टान्ते द्रव्यस्य दध करणत्वस्य होमाश्रितत्वं सम्भवति ।
यदि तु परम्परया साम्म्री मन्त्रस्य यागोपकारकलेन यागसाधनत्वं मन्यते तत्रोच्यते । होमस्य द्रव्यदेवता साधनकतया यस्य कस्यचिद्रव्यस्य होमकरणताया आवश्यकत्वात् दनोऽपि करणताया: शास्त्रमन्तरेणापि लोकादेव प्रप्तिर्दृष्टान्ते फलमात्रं विधेयम् । अतः पदार्थsafविधानाभावादेकमेव वाक्यम् । न च तर्हि दध्ना जुहोतीत्यत्रापि दध्नः प्राप्तत्वेनाविधेयत्वात् होमस्य च तथात्वा वाक्यस्यानुवादत्वापत्तिस्तस्य गुणविधित्वसिद्धान्तभङ्गश्च स्यादिति वाच्यम् । दः प्राप्तत्वेऽपि बावश्यकत्वेनाप्राप्तत्वेनावश्यकाङ्गत्वेन विधानाविधेयत्वोपपत्तेगुणविधित्वोपपत्तेश्व । दनेन्द्रिय कामस्येत्यच तु दनी नावश्यकाङ्गत्वेन विधानम् । येन द्रव्यान्तरमपहाय दवा हयते । येन इयते तस्येन्द्रियं स्यादिति पाचिकभावेनैव विधानात् । अतो न तस्य विधेयत्वम् । प्रकृते तु रेवतीमध्यपव्यमानवारवन्तीयसामो योगसाधनतायाः शास्त्रमन्तरेणाप्राप्यतया विधेयत्वावश्यम्भावेन गुणफलोभयविधानाद्दाक्यमेदी भवत्येव । तथाच न्यायमालायाम् --
फल.
“दनी होमजनकत्वं न शास्त्रेण बोधनौयं तख लोकतोऽवगन्तुं शक्यत्वात् । सम्बन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु रेवत्यगाधारवारवन्तोयस्रात्रो अग्निष्टुत्कर्म्मसाधनत्वं फलजनकत्वचेत्युभयस्य शास्त्रगम्यत्वादुब्बा
वाक्य भेद” इत्युक्तम् ।