________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
पाश्रयत्वेन धात्वर्थाम्बयस्योत्तखात्। तथाहि दभेन्द्रियकामस्थ शुहुयादित्यत्र न तावडोमो विधीयते। तस्य वचनान्तरण विहितत्वात्। नापि होमस्य फलसम्बन्धः । गुणपदानार्थक्यापत्तेः। नापि गुणसम्बन्धं विधत्ते। फलसम्बन्धपदानर्थक्यापातात्। नाप्युभयसम्बन्ध विधत्ते। प्राप्ते कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाहुः ।
प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति ।
दध्यादिद्रव्यसफलत्वाधिकरणी। आश्रयत्वेन दधिनिष्ठकरणत्वस्य पाअयत्वेन। पतएक शास्त्रदीपिकायां तदधिकरणे दधिहोमसम्बन्धन प्राश्रयायिभाव इत्युक्तम् । भाष्यकारैः रप्यचोक्तम् । दधी होमेन सम्बध्यमानत्वात् फलं भविष्यतीति । एवञ्च दभेन्द्रियकामस्येत्त्यस्य होमाश्तेिन दन: करणत्वेन इन्द्रियं भावयेदिति वाक्यार्थः। तथाच, तक यावर्थस्य करणत्वेन कर्मत्वेन वा भावनायां नान्वयः। तत्र दन: करणत्वेन, इन्द्रियस्य च कर्मत्वेनान्वयात् । धात्वर्थस्य तु दधिकरणत्वस्य आश्रयत्वेनेति धात्वर्थस्य भावनान्वय एक नास्तीति व तावत् करणत्वेनान्वयनियम इति भावः। श्राश्रयत्वेनान्वयं व्यञ्जयति तथाहौति । वचनान्तरेण अग्निहोत्रं जुहुयात् वर्गकाम इति प्रधानविधिना। हीमा प्रधानविधिप्राप्त होमस्य । गुणपदेति । दधिपदैत्यर्थः । गुणसम्बन्धः केवलद्रव्य. सम्बन्धः । अनेकविधाने होमस्य दधिगुणकत्वमिन्द्रियफलकबञ्चेति धर्मादयविधाने । वाक्यभेदापत्तेः परिप्राप्तं होमं दना भावयेत् परिप्राप्त होभनेन्द्रियं भावयेदितिः वाक्यबयापत्तेः। पत्र सिद्धान्तसम्मतिमाह यथाहुरिति । वार्तिककारा इति शेषः ।
प्राप्त प्रमाणान्तरविहिते । अनेक एकाधिकः । अमाप्ते विध्यन्तरामाप्ते. खवाक्यमाचप्राप्ये इति यावत्। एकयवत: एकैन वाक्येन । उभयवान्वितमेतत् । एतेन वाक्यभेदेनानेको. ऽपि गुणी विधातुं शक्य इति सिध्यति । ननु प्रकृते गुणयविधानं न सम्भवति दक्ष एव गुणत्वात् इन्द्रियस्य गुणत्वाभावात् । तत्कथमने कगुणविधानमापादयतीत्यत पार
For Private And Personal