________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७२
अर्थसंग्रहः ।
एकत्र सादृश्यज्ञानादपरचासन्निकृष्ट सादृश्यज्ञानमुपमितिरिति फलितम् । तय प्रथमसादृश्यज्ञानं करणं द्वितीयसादृश्यज्ञानं फलमितातः प्रथमसादृश्यज्ञानमेव ब्यापारवत्कारणत्वेन उपमानाख्यप्रमाणम् । व्यापारस्तु सदृशवस्तुनः स्मरणम् । तथाहि नगरे गां दृष्टवतः पुरुषस्य विपिने गवयसन्दर्शनात् गवये गोसादृश्यज्ञानमुत्पद्यते । अनन्तरञ्च गोः स्मरणम् । तदनन्तरञ्च यासावस्याभि नगरे दृष्टा गौः सा अनेन गवयेन सदृशीति गोगतगवयसादृश्यज्ञानं जायते । सादृश्यञ्चातिरिक्तः पदार्थ इति केचित् । पार्थसारथिमिश्रास्तु अर्थान्तरयोगिभिः सम्बन्धसामान्यैरथान्तरसा तादृशयोगः सादृश्यम् । यथा गोजातियोगिभिः कर्णाद्यवयवसामान्य - वियजातैर्योगी गवयसा सादृश्यम् । गवययोगिभिश्च गोर्योगस्तत्सादृश्यम् । अतएव च सामान्यभूयस्त्वाल्पत्ववशेन सादृश्यप्रकर्षाप्रकर्षी । ये तु सामान्ययोगातिरिक्तमन्यदेव तत्त्वं सादृश्यं मन्यन्ते तेषां प्रकर्षाप्रकर्षभेदः किन्निमित्त इति चिन्तनीयमित्याहुः | एतत्रोपमानं केचित्तान्त्रिकाः प्रताचेषु केचिच्चानुमानेष्वन्तर्भावयन्ति तस्तिरस्तु वेदान्तपरिभाषाटीकायां प्रदर्शितोऽस्माभिः ।
अथ शब्दप्रमाणम् ।
तत्र भाष्यम् ।
शाब्दं शब्दविज्ञानादसन्निकृष्ट अर्थे विज्ञानमिति । विज्ञाताच्छन्दादर्थाभिधानहारेण यद्दाक्यार्थविज्ञानं सा शाब्दीप्रमितिरितार्थः । तत्करणञ्च पदकदम्वात्मकं वाक्यम् । व्यापारस्तु तत्तत्पदार्थज्ञानम् । अती वाक्यमेव शब्दात्मकं प्रमाणम् । तञ्च वाक्य' पौरुषेयापौरुषेयभेदेन द्विविधम् । aa पौरुषेयमाप्तवाक्यम् । तेन शाक्यभित्तुप्रभृतीनां वाक्यानि न प्रमाणानि । अपौरुषेयञ्च वेदवाक्यम् । उभयमप्यनाप्तप्रणीतत्वदोषविरहात् प्रमाणम् । तच पुनर्द्विविधं सिद्धार्थं विधायकचेति । पुत्रस्ते जात: ब्राह्मणोऽसा मुखमासीदित्यादि सिद्धार्थम् । विधायकमपि द्विविधम् उपदेशकमतिदेशकञ्च । इत्थमिदं कर्त्तव्यमितुपदेशः । यथा लोके दधिष्टतसूपशाल्यादिभिर्देवदत्तो भोजयितवा इति । बेदेपि प्रयाजावषावादिप्रकारेण दर्शपौर्णमाभ्यां स्वर्गं कुर्य्यादिति । तदिदं कर्त्तवग्रमितप्रतिदेशः । यथा लोके देवदत्तवत् यज्ञदत्तो भोजयितका इति ।
For Private And Personal