________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । नच चोदनालक्षणोऽर्थो धम्म इति सौत्रलक्षणविरोधः, चोदनापदसा विधिरूपवेदैकदेशपरत्वादिति वाच्यम् ।
तत्रापि चोदनाशब्दसा वेदमात्रपरत्वात् । सर्वसय बेदमा धमतात्पर्यकत्वेन धम्मप्रतिपादकत्वात् ।
आततायिवधस्य तु विधयतया निषेधविषयताभावेन तन्जनकश्येनादेरर्थत मिष्टमे वेताक्तम् प्राक् ।
खीतधर्मलक्षणस्य महर्षि कृतधर्मलक्षणेन सह विरोधाभासं परिहरति न चेति। विरोध हेतु माह चोदनापदस्येति। सूत्रस्थस्येति शेष.। विधिरूपेति । अवायमाशयः । मन्त्र ब्राह्मणभेदेन वेदस्य विधा विभागस्तव मन्वा अभियुक्तसमाख्यानप्रसिद्धाः । ब्राह्मणं तदितरबेदभागः। तयाच सूत्रम्, शेषे ब्राह्मण शब्द इति । छत्तिकारस्तु शिष्यहितार्थ ब्राह्मणस्य कतिचित् विभागाः संग्रहीताः । यथा ;
हेतुनिर्वचनं निन्दा प्रशंसा संशयीविधिः । परक्रिया पुराकल्पी वावधारणकल्पना।
उपमानं दशैसे तु विधयो ब्राह्मणस्थ तु। इति । भाष्यकारमते तु एतदपि प्रायिकम् इतोपि विभागान्तरमस्ति । तत्र प्रवृत्ति निवृत्त्यनातरफलकम् स्वार्थपालननियोगपरं लिङादिपदघटितवाक्य विधिः । स एव चोदनापरनामा। स्वाध्यायोऽध्ये तवाः न हिंस्यात् सर्बाभूतानीत्यादिरूपः । विहितस्य कर्मण उपादेयत्ववोधकम् वाक्य प्रशंसा। सैव स्तुत्यर्थवादनानी वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । प्रतिषिद्धकर्मणी हेयत्व बुद्धिदाढयजनकम् वाक्यम् निन्दा। निन्दायवाद इत्यनर्यान्तरम्। सोऽरीदौदित्येवमादिः । अनाषामपि खरूप भाष्ये द्रष्टवाम् ।
तत्र विधिरूपी यी वेदैकदेशचोदनापदस्य तत्परत्वावश्य कतया सूबकारमते तत्प्रतिपाद्यस्यैव धर्मत्वं नतु तदितरवेदप्रतिपाद्यम् । भयग्मते तु विधीतरांश
For Private And Personal