________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
१५३ रागत एव, प्रतिषेधश्च पुरुषार्थस्तत्र प्रतिषिध्यमानस्यानर्थहेत्वम् । यथा, न कलज भक्षयेदित्यादी कलाभक्षणादेः । तत्र भक्षणनिषेधसैव पुरुषार्थत्वात् ।
नच, दीक्षितो न ददाति न जुहोतीतबादौ शास्त्रप्राप्तदानहोमादीनां प्रतिषेधादिकल्पापत्तिरिति वाच्यम् । खतः
कारकत्वं प्रतीयता, तेनापि विरोध आपद्येतेतिचेन्न, घोड़शिनं ग्टलीयादिति प्रताक्षश्रुत्या घोड़शिग्रहणस्य क्रत्वर्थत्वप्रतिपादनात् तहिरोधेन तथाविधनियमस्य भावाभावविकल्पव्यतिरिक्तविषयताया पावश्यकत्वात् ।
तईि प्रतिषिध्यमानस्यानर्थहेतुत्वं क्त्यवाह यचविति। न विकल्पइति । विकल्पस्थले प्रतिषिध्यमानसमानर्थहेतुत्वे वाधकसत्त्वादितिभावः। न पुरुषार्थइति । सथाच यव रागप्राप्तप्रतिषेधसा न पुरुषार्थत्वं, किन्तु क्रतूपकारकत्वं, तत्रापि प्रतिषिध्यमानस्य नानर्थ हेतुत्वमिति सिद्धम्। उदाहृतसा कलञ्जभक्षणादरनर्थ हेतुत्वे हेतुमाह तब ति। भक्षणनिषेधसैवेति। तथाच कलञ्जभक्षणादिनिषेधसा पुरुषार्थले कलनभक्षणादेः पुरुषानर्थहेतुतायाः प्रागुक्तनियमवलेन कल्पनीयत्वादितिभावः ।
शास्त्रप्राप्त प्रपजीविनः प्रतिषेधार्थत्वाभापगमे विकल्पावश्यम्भाव इतुक्त,तनियमे व्यभिचारशका निराकारीति नचेति । दीक्षिती न ददातीति । ज्योतिष्टोमे श्रयते, दौषिती न ददाति न जुहोति न पचतीति । एते शास्त्रप्राप्तदानहोमपाकानां प्रतिषेध एवेतातन्मतमाश्रिता शङ्कते विकल्पापत्तिरिति। अन्न मतभेदा दृश्यन्ते। सूवकारभाष्यकारमते पर्युदास एव। तथाहि न ददातीतादिश्रुती संशयः । किमयमहरहर्दद्यात्, सायं प्रातर्जुहोतीतादि शास्त्रप्राप्तानां पुरुषार्थानां दानादौनां प्रतिषेध उत ज्योतिष्टोमार्थत्वे न प्राप्तानां दानादीनां प्रतिषेधः । अथवा भविशेषात् सर्वेषामेबेति । भवाविशेषात् सर्वेषामबेति पूजपचः । तथाच दशमाध्यायाष्टमपाद पूर्वपक्षसूत्रम् ।
For Private And Personal