________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४३
अर्थसंग्रहः। तथाहि यद्यत्र वाक्ये नअर्थे प्रत्ययार्थान्वयः स्यात्तदानुयाजेषु ये यजामह इति मन्त्रस्य प्रतिषेधः स्यात् अनुयाजेषु ये यजामहं न कुर्यादिति । सच प्राप्तिपूर्वकएव प्राप्तस्यैव प्रतिषेधात् । प्राप्तिश्च यजतिषु ये यजामहं करोतीति शास्त्रादेव वाया । शास्त्रप्राप्तस्य प्रतिषेधे विकल्प एव नतु वाधः। प्राप्ति मूलरागस्येव तन्मूलशास्त्रस्य शास्त्रान्तरेण वाधायोगात् ।
वाधकत्वमिति। ननु कथमत्र नअर्थेन प्रत्ययान्वये विकल्पप्रसक्तिरितात ला दर्शयति तथाहौति। प्रतिषेधः स्यादिति। प्रतायार्थप्रवर्तनाया नअनामये प्रवर्त्तनाविरोधिनिवर्तनायाः प्रतीतेर्वाक्यसा येयजामहनिवर्तकत्वापावादितिभावः । निषेधप्रकारं दर्शयति अनुयाजेविति। निषेधत्वे काहानिरित्याकाङ्क्षायां निषेधस्य प्राप्तिपूर्वकत्वनियम प्रतिपादयति सचेताादि। प्राप्तस्यैवेति। प्राप्तं हि प्रविषिध्यत इति न्यायात् प्राप्तिमन्तरेण निषेधासम्भवादितिभावः। भवतु निषेघसा प्राप्तिपूर्बकत्वं तेन किमित्यवाह प्राप्तिथेति। शास्त्रादेवेति। कष्टं कमें ति न्यायेन पदृष्टार्थकर्मणीरागात् प्राप्तासम्भवादितिभावः। यदि तु शास्त्रादेव प्राप्तौ प्रतिषेध इत्यङ्गौक्रियते तदा विकल्पापति? बारेतबाह शास्त्रप्राप्त साचेति। न वाध इति । सामान्यप्रमाणप्रतिपन्नसा येयजामहमन्त्रपाठसा कर्तव्यताप्रतिवन्धोनेतार्थः। ननु न कलचं भक्षयेदितादिना रागप्राप्तसेव येयजामहमन्त्रपाठसा याधः कुतो नस्यादितात आह प्राप्तिमूलरागसप्रवेति। प्राप्तिमूलं प्रापको योरागस्तसेवेत्यर्थः । प्रापकसा रागसा यथा शास्त्रेण वाध: प्रापकसा शास्त्रसा शास्त्रान्तरण तथा वाधी न युक्त एबेतिभावः । तेन च इयोरेव शास्त्रप्रमाणत्वेन तुल्यवलतया एकेनापरस्य निताववाधितुमशक्यत्वात् पाक्षिकवाधिन इयोः प्रवृत्त्या विकल्प एव प्रसज्यत इति सिद्धम्। तथाचीत दशमाध्यायाष्टमपादभाष्यकारैः।
प्रतिषेधी विधि वाधित्वा भविष्यति विधिरपि प्रतिषेधमिति। तथा तदा विधिर्यदा न प्रतिषेधः । तदा प्रतिषेधी यदा न विधिरिति च ।
For Private And Personal