SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १०५ प्रवृत्तेः । एवं सामर्थमपि । आख्यातानामर्थं ब्रुवतां सहकारिणी शक्तिरितिन्यायात् समर्थं प्रत्येव विधिप्रवृत्तेः । तदेवं निरूपितो विधिः । हवनीयाद्यनयस्तु वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मं राजन्य:, शरदि वैश्य इति श्रुत्या प्रधानसाध्यत्वेन प्रतिपादिताः । a Tarafafधविहिताहवनीयाद्यनि सत्ताया अधिकारिविशेषणत्वसिद्ध निरग्रीनां यागानधिकार इति प्रतिपादयति एवमिति । असाध्यक होमात्मकयागेषु । अग्न्यपेचत्वेन अग्निमन्तरेणासम्भाव्यमानत्वेन । तद्दिधीनामग्रिसाध्यकम्मेप्रतिपादक विधीनाम् । प्रतप्रवेल्लेवकारेण निरग्निव्यावत्तिः । dearera लोकावगतस्यापि अधिकारिविशेषणत्वमित्याह एवं सामर्थ्यमपीति । शक्तिरपौत्यर्थः । शक्तेः सहकारित्वे आप्तसंवादमाह आख्यातानामिति । स्वार्थं प्रकाशयतामाख्यातानां शक्ति: सहकारिणीभवतीत्यर्थः । खार्थप्रकाशनसामर्थ्यमन्तरेण आध्यातकर्तृकस्वार्थप्रकाशनाख्य क्रियाया असम्भवादितिभावः । इतिन्यायात् एतत् साहस्यात् । यथा स्वार्थप्रकाशनाख्य क्रियायां तत्सामर्थस्य सहकारित्वमाख्यातानामङ्गीक्रियते तथान्यवापि यागादिक्रियायां कर्त्तस्तत्करणसामर्थ्यस्य सहकारित्वमवश्यमभुप्रपगन्तव्यमितिभावः । समर्थं यागानुष्ठानशक्तिमन्तम् । प्रवेत्येवकारेण अप्रतिसमाधेयाङ्गवैकल्यवन्तः काम्ये कर्म्मणि व्यावतीन्ते । तेषां साङ्गयागानुष्ठानासामर्थ्यात् । तथाहि अन्धो नाज्यमवेचितुं चमः । पङ्गुर्बिणुक्रमेष्वशक्तः । वधिरो नाम्वर्य्युप्रोक्त ं शृणोति । मूकोऽनुमन्त्रणादावसमर्थः । अतस्तत्तदङ्गासमर्थेषु तेषु काम्यसाङ्गयागविधयो न प्रवर्त्तन्ते । यदि तान्यङ्गानि पुरुषोपकारकतया विधीयेरन् तदा फलकामनावत्पुरुषाणां सर्व्वेषामेव यागाधिकारः स्यात् । यागविधेः प्रवृत्तत्वात् । अङ्गविधीनान्तु यथासम्भवं प्रवृत्तेर्यथासम्भवमङ्गाधिकारइति सुवचं स्यात् । नतु तथा । यागीपकाराकाङ्गायामेव तेषां विधानेन निरवशेषाङ्गafe यागविधिरेव पुरुषं प्रति प्रवर्त्तते । यस्यतु कम्मिश्चिदप्यङ्ग नास्ति सामध्यें १४ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy