________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः.
विभागः । पुरोडाशबहुवे 'यथाभागं व्यावर्तध्वम् । इत्येकैकं पुरोडाशं विभनेदित्यर्थः । 'अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वदग्नये पावकायामये शुचये' इत्युदाहरणम् । 'येन यज्ञेनेर्सेत्' इति विहितेन पुरोडाशेन चत्वारः पुरोडाशा अस्यामिष्टौ भवन्ति । तत्र 'यथाभागं व्यावनध्वम्' इति द्वौ पिण्डौ विभजेत् । 'यथाभागं व्यावर्नेथाम् । इति प्रकृती विभज्यमानमपि पिण्डद्वयमितिशङ्कया पुरोडाशगणेपि विभज्यमानयोत्विात् अनूहमाश
बच प्रकृतौ हविरभिधानत्वात्युरोडाशगणे च हविषां बहुवादूहोपदेशः । यदा-विभज्यमानद्रव्यस्यैकत्वादेकवचनमाशवचैकस्मिन्नपि हविषि विभज्यमाने सर्वेषां परस्परेण पृथक्करणे सिझे बहुवचनान्त ऊह उपदिश्यते ॥
१९. क.-अपच्छिन्दयादित्यनुवर्तते । यदोत्तमौ द्वौ भागौ परिशिष्टौ, नदा तयोरन्योन्यव्यावृत्तिमात्रापेक्षणाद्विवचनेन व्यावर्नथामिति विभागः कर्तव्यः ॥
बहुष पुरोडाशेष्वेककस्मिन्नपच्छिद्यमाने द्रव्यदेवताविषययागाद्यनुष्टानसिद्धयर्थं यागचोदनाक्रमेण प्रथमायै देवतायै प्रथमो भागो द्वितीयायै देवतायै द्वितीय इत्येवं सर्वत्रावधृनेपूत्तमयोः क्रमाभावेन कम्यै क इत्यनवधारणानिर्णायकप्रमाणान्तराभावाच स्वयमेव इदमस्या इति सङ्कल्पयेत् । प्रकृतावपि पुरोडाशयोरेवमेव सकल्पः । अतश्शास्त्रप्रामाण्यात्तस्या एव भवति ॥
For Private and Personal Use Only