________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः.
ह.-निर्देशो विशेषवचनं । विशेषवचनात् प्रधानविशेष एव धर्मा व्यवतिष्टन्ते । ‘पयसा मैत्रावरुणं श्रीणाति । स्तुवेण पूरोडाशमनक्ति ' इति चोदाहरणम् ॥
३०. क-यद्यप्यानेयोटाकपाल इति द्रव्यपरो निर्देशः ; तथाप्यामेय इति देवतातद्धितत्वादष्टाकपाल आनेयः कर्तव्यः । तस्यायत्वं यागमन्तरेण न सिध्यतीति ‘आग्रेयोटाकपाल:' इति याग एवोपदिष्टः । उपांशुयाज इति यागनाम्ना याग एवोपदिष्टः । 'अग्नीषोमीय एकादशकपाल:' इत्यादिभिरपि याग एवोपदिष्टः । एतानि त्रीणि यजनानि पौर्णमास्यां काले प्रयोगे प्रधानानि ॥
___ह.-अग्निर्यस्य देवता सोयमानेयः । अष्टसु कपालेषु संस्कृतः पुरोडाशोष्टाकपालः । अमीषोमीयोपि तद्वत् । आनेयानीषोमीयशब्दाभ्यां तत्साध्यो याग उपलक्ष्यते । एते त्रयो यागा: पौर्णमास्यां प्रधानानीत्यर्थः । उपांशुयाजस्य व्युत्क्रमेण पाठोऽनीषोमीयाभावेप्यसोमयाजिन उपांशुयाजो न निवर्तत इति ख्यापनार्थः ॥
३१. क-तेषां प्रधानानामङ्गान्युपकारकाणि शेषभूतानि इतरे होमाः आरादूपकारकाः । न विश्वविद्वत्फलं कल्प्यम् । नापि रात्रिवदर्थवादस्थं फलं । 'अग्निं गृहपतिं यजति प्रतिष्टित्यै । इत्येवमादीनां प्रधानोपकारार्थत्वेन परार्थत्वात्फलश्रुतेरर्थवादत्वं । अतः प्रधानानामङ्गान्यारादुपकारकाणि । सन्निपत्योपकारकाणां तु दृष्टप्रयोजनत्वान्नानङ्गता शङ्ख्या ।।
For Private and Personal Use Only