________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमः खण्डः.
३७
न प्रतिबिन्दु मन्त्रभेदः | अमेध्यम् अशुचि, व पुरीषादि । तस्य प्रतिमन्त्रणं “ अबद्धं मन इत्यमेध्यं दृष्टा जपति ” इति विहितम् । (अनेनैवाड्रेन जपति चोदनात्, चातुर्यादपीख्येया) बहुष्वमेध्येषु युगपदृष्टेषु सकृदेवाभिमन्त्रणम् । व्यवायो विच्छेदः । न व्यवेतानि कालेनाविच्छिन्नानि कालाव्यवेतानि 1 कालेनाविच्छिन्नेषु युगपत्कालीनेव्वित्यर्थः । कालभेदेन तेषु मन्त्रा आवर्तन्ते ||
४४. क. - प्रयाणे प्रयोजनोद्देशेन गमने यावद्भिर्दिनैः प्रयोजनस्य निवृत्तिः परिसमाप्तिः । प्रक्रमप्रभृत्याप्रयोजननिवृत्तेरेकं प्रयाणम् । एकस्मिन्नेको मन्त्रो, 'भद्रादभि श्रेय' इति । प्रयोजनभेदे त्वावर्तते । तुशब्दाद्भोजन शयना [ दि] भेदेपि न प्रयाणभेदः ॥
चण्डाल.
Acharya Shri Kailassagarsuri Gyanmandir
ह. - अर्थनिवृत्ति [त्ते ] रिति वा पाठ: । अर्थनिवृत्तिः प्रयोजननिवृत्ति: । 'भद्रादभि श्रेय' इत्येतदुदाहरणम् । तत्र आ देवयजनप्राप्तेः सकृदेव प्रयाणमन्त्रः ॥
थ् (
४५. क - येषां कर्मणामिदंतया फलं दृश्यते तानि सन्निपातीनि स्तरणाच्छादनादीनि । यानि न तादृशानि तान्यसत्रिपातीनि अभिमन्त्रणोपस्थानावेक्षणादीनि । तेव्वसन्निपातिI कर्मसु च तद्वत् । यथा कण्डूयनादिष्वेकमन्त्रत्वं तथा 'अपां क्षये' इति ग्राणामभिमन्त्रणं एकेन सर्वेषां न प्रत्येकं मन्त्रावृत्तिः । 'अग्नीन्यजमान उपनिष्टते', 'कल्पेतां द्यावापृथिवी', 'येग्रयस्समनस' इति तत्र सकृन्मन्त्रप्रयोगः, न प्रत्यग्रचावर्तते ||
) एवं चिह्नितं वाक्यं क पुस्तके नास्ति. ]
अति प्रयाण उ.
For Private and Personal Use Only