________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. एतैरेव वेदैः कृत्स्नं ब्रह्मत्वं विहितं अत एव “सत्रिविधीयत" इत्युक्तं त्रिभिरपि वेदैर्ब्रह्मत्वस्य विहितत्वात् इडाभक्षणतानूनत्रादौ ऋग्वेदविहितानां मन्त्राणां ब्रह्मणो विकल्पस्स्यात् । अध्वरचादीनां यथावेदं व्यवस्थैव ॥
ह.-परिबृढ'इश्रुततरः सर्वेभ्यो बहुश्रूत इति ब्रह्मा “ अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात् ” इति बढ्चश्रुतिः । यत्रापि मन्त्रैर्वरणं न भवति तत्राप्यवश्यं वरणेन भवितव्यमित्यर्थः । यथा दर्शपूर्णमासयोराधाने च संस्कृतेन वाक्येन । वेदत्रयेपि ब्रह्मत्वं सकलं भवति नैकैकेन । नाप्यथवर्णवदेनेति शेषः । इदमर्थमेवहि स त्रिभिरिति वचनं चतुर्थवेदप्रतिषेधार्थमित्युक्तं । एवं तर्हि नारब्धव्यमिदं । एककार्याणां तानूनप्त्रसोमभक्षणमन्त्रादीनां वेदत्रयसमानातानां ब्रह्मणो विकल्पार्थ आरम्भः ॥
२२. क-ऋग्वदेयजुर्वेदसामवेदविहितानां पदार्थानां होत्रध्वर्युगातृणां कर्तृत्वे प्राप्ते ददमुच्यते । वचनाद्विप्रतिषेधाद्वान्यः कुर्यादिति ॥ चार्थे वाशब्दः । वचनं वाक्यं । विप्रतिषेधः असंभवः, अशक्तिश्च । वचनं 'उन्नेता जुहोति । सप्त होत्राः प्राचीर्वष ट्रकुर्वन्ति' इति । विप्रतिषेधः प्रमुञ्चमाना इति प्रणीयमाने न हि प्रणीयमानोन्वारंभणं होमञ्च युगपदध्वर्युश्शक्नोति कर्तुं । तथाश्वमेधे पशूनामुपाकरणादिप्वेकस्याध्वर्योरसंभवः । एवमादिष्वन्ये कुर्वन्ति । अन्ये चर्विजामेवाधिनः पादिनः तृतीयिनो वा । एतेषा मप्यसंभवे अन्यः कुर्यात् । हिरण्यमालिन ऋत्विजस्सुत्येहनि 1अतीव वृद्धः.
तत्रापिपशुवदर्थातू.
For Private and Personal Use Only